पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
118
[बालकाण्डः
ऋश्यशृङ्गोपाख्यानम्

यिष्यति । प्रदीयते-प्रदास्यते, छान्दसो लट् । अत एव ऋश्यशृङ्गस्तु राज्ञो जामाता भविष्यति । स एव तव पुत्रान्विधास्यति-इत्येवमेतावत् सनत्कुमारकथितं मया श्रुतं, इदानीं तुभ्यमिदं व्याहृतं च । अतः परं देवः प्रमाणमिति शेषः ॥ १७-१८ ॥

 अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत ।
 यथर्श्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम् ॥ १९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे नवमः सर्गः

 हृष्टः-निश्चितपुत्रप्राप्त्युपायलाभासंतुष्टः । अथोत्तरसर्गप्रतिपाद्यार्थस्य पातनिका-यथेत्यादि । आनीत इति । गणिकाभिः रोमपादेनेति शेषः। धैर्य(१९)मानः ॥ १९ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे नवमः सर्गः


अथ दशमः सर्गः

[ऋश्यशृङ्गोपाख्यानम्]

 सुमन्त्रचोदितो राज्ञा प्रोवाचेदं वचस्तथा ।
 [१]यथर्श्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिस्सह ॥ १ ॥

 अथ पुरोहिताशक्यानयनः कथं गणिकाभिरानीत इति असम्भावनया तदानयनप्रकारे चोदिते यथाश्रुततत्त्वकथनेन तं सम्भावयति सुमन्त्रः-सुमन्त्र इत्यादि । चोदित इति । विस्तरेणानयनप्रकारकथनायेति शेषः । मन्त्रिभिस्सह संमन्त्र्य रोमपादेन यथर्श्यशृङ्गस्त्वानतिः, तं प्रकारं मे मम सकाशात् शृण्विति योजनार्थः ॥ १ ॥


  1. एतदनन्तरं-तन्मे निगदितं सर्वं विस्तरेण श्रृणुष्व ह । इदमधिकं-ङ.