पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
117
ऋश्यशृङ्गप्रसादात् ते भविष्यन्ति सुता इति

 ते तु राज्ञो वचश्श्रुत्वा व्यथिता विनताननाः ।
 न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १५ ॥

 ते त्विति । पुरोहितमन्त्रिण इति यावत् । व्यथिताः-अशक्यार्थयोगतः खिन्नाः, अत एव विनताननाः, ऋषेर्विभण्डकाद्भीतास्सन्तो न वयं गच्छेम इत्युक्त्वा तं नृपं रोमपादं अनुनेष्यन्ति । अशक्यार्थत्वात् त्वन्नियोगो नास्माभिरनुष्ठीयते, अतः क्षन्तव्यमित्यनुनेष्यन्ति ॥ १५ ॥

 वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तत्क्षमान् ।
 आनेष्यामो वयं विप्रं [१]न च दोषो भविष्यति ॥ १६ ॥

 एवमनुनीयाथ क्षमान्-उचितान् तदानयनोपायांश्चिन्तयित्वा तस्य राज्ञो वक्ष्यन्ति । अम्मदुक्तं यदि शृणोषि तदा वयं तं विप्रमानेष्यामः । तदाऽस्माकमपि शापादिदोषो न भविष्यति, गणिकाद्वारत्वात् ॥ १६ ॥

 एवमङ्गाधिपेनैव गणिकाभिॠषेस्सुतः ।
 [२]आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते ॥ १७ ॥

 ऋश्यशृङ्गस्तु [३]जामाता पुत्रांस्तव विधास्यति ।
 सनत्कुमारकथितमेतावद्ध्याहृतं मया ॥ १८ ॥

 एवं स्वामात्यवचनात् गणिकाश्च प्रेषयता अङ्गाधिपेन गणिकाभिः-द्वाराभिः ऋषेस्सुतः आनीतस्सन् देवः-पर्जन्यः अवर्षयत्-वर्ष-


  1. ऋश्यशृङ्गस्य ब्रह्मचर्यवैफल्यरूपदोषश्च न भविष्यति । यथा गणिकासंपर्को न भवेत्तथाऽऽनेष्याम इत्यर्थः-गो. वञ्चनयाऽऽनयन्मपि न दोषाय, लोकक्षेमार्थत्वादिति वाऽर्थः
  2. यद्यपि सनत्कुमारोक्त्यनुरोधेन भविष्यनिर्देश उचित: ; तथापि राज्ञः सन्तोषाधिक्याय स्वप्रोच्यमानकाले वृत्तमेतदिति बोधयितुं भूतनिर्देशः ये त्वानयनादिसर्वं भविष्यत्त्वेनैव व्याचक्षते तेषां 'कथं आनीतः ?' इति राजप्रश्नानुपपत्तिः-ति.
  3. शान्ता दशरथस्यौरसी पुत्री रोमपादस्य दत्ता । अत उभयोजोमाता कश्यशृङ्ग इति-गो.