भवन्तः श्रुतधर्माणो लोकचारित्रवेदिनः ।
[१]समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ॥ १० ॥
समादिशन्तु । यथा चेन्मत्पापस्यानावृष्ट्यादिमूलस्य प्रायश्चित्तं भवति तादृङ्नियममनुष्ठेयांशमादिशन्तु ॥ १० ॥
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
आनाय्य च महीपाल ! ऋश्यशृङ्गं सुसत्कृतम् ॥ ११ ॥
एवं राज्ञा पृष्टास्ते शुद्धब्रह्मचारिणे कन्याप्रदानमेव परं प्रायश्चित्तमिति वक्ष्यन्तीत्युपदिश्यते-वक्ष्यन्तीत्यादि-कन्यां प्रयच्छेत्यन्तेन । आनाय्येति । नीञो हेतुमण्ण्यन्ताल्लयप् । महीपाल ऋश्येति ऋत्यकः' इति प्रकृतिभावः ॥ ११ ॥
विभण्डकसुतं राजन् ! ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १२ ॥
प्रयच्छ । ऋश्यशृङ्गायेति शेषः ॥ १२ ॥
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्य इहा-ङ.शक्यमिहानेतुं स वीर्यवान् ॥ १३ ॥
राज्ञश्चिन्ताभिनयः–केनोपायेनेत्यादि । वीर्यवान् विद्यावृत्ततपोवीर्यवान् ॥ १३ ॥
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च ततः प्रेष्यति सत्कृतान् ॥ १४ ॥
- ↑ एतदनन्तरं, इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥ इदमर्धमधिकं-ङ.