पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११ सर्गः]
127
एवं श्रुत्वा पुरावृत्तं सुमन्त्रोक्तं नराधिपः

 इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः ।
 राजा दशरथो नाम श्रीमान् सत्यप्रतिश्रवः ॥ २ ॥

 सत्यप्रतिश्रवः-सत्यप्रतिज्ञः ॥ २ ॥

 अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति ।
 कन्या चास्य महाभागा शान्ता नाम भविष्यति ॥ ३ ॥

 अङ्गराजेन रोमपादेन । तस्येति । दशरथस्येति यावत् । येनाङ्गराजेन दशरथस्य सख्यं भविष्यति, अस्याङ्गराजस्य शान्ताख्या कन्या च भविष्यति ॥ ३ ॥

 पुत्रस्त्वङ्गाधिराजस्य रोमपाद इति श्रुतः ।
 अङ्गराजं दशरथो गमिष्यति महायशाः ॥ ४ ॥

 किंनामकोऽसावङ्गदेशाधिपतिः राजा ? येन दशरथस्य सख्यमित्यत्रोक्तम्–पुत्र इत्यादि । अङ्गस्य- अङ्गदेशाधिपतेः राज्ञः पुत्रः, दशरथसखा च रोमपाद इति श्रुतः । तं रोमपादं स्वमित्रं गमिष्यतीति । ऋश्यशृङ्गानयनार्थमिति शेषः ॥ ४ ॥

 अनपत्योऽस्मि धर्मात्मन् ! शान्ताभर्ता मम क्रतुम् ।
 आहरेत त्वयाऽऽज्ञप्तः सन्तानार्थं कुलस्य च ॥ ५॥

 तदेव प्रतिपाद्यते-अनपत्योऽस्मीत्यादि । धर्मात्मा-धर्मदेवताबतारमूर्ति: । शान्तायास्त्वत्पुत्र्याः भर्ता त्वद्गृहवासी, ऋश्यशृङ्ग इति यावत् । एवं स्थिते पाङ्क्ते पूर्वापराविरुद्धे [१]कश्चित्–कन्या चास्येत्यत्र


  1. रामानुजीयेप्येवमनुवादो दृश्यते. गोविन्दराजीयेऽपि पूर्व ९-१८ श्लोकव्याख्याभावसरे एवमुक्तम् ।