पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९ सर्गः]
113
अथाब्रवीत् सुमन्त्रस्तु राजानं रहसि स्थितम्

 [१]उपसन्दिष्ट इति त्रिपदम्, उपदिष्टोऽयं ऋतु: यथावत् समाप्यतामिति योजना । 'व्यवहिताश्च' इति व्यवहितप्रयोग उपसर्गस्य ॥ २१ ॥

 इत्युक्त्वा नृपशार्दूलः सचिवान् समुपस्थितान् ।
 विसर्जयित्वा स्वं वेश्म प्रविवेश महाद्युतिः ॥ २२ ॥
 ततस्स गत्वा ताः पत्नीः नरेन्द्रो हृदयप्रियाः ।
 उवाच दीक्षां विशत यक्ष्येऽहं सुतकारणात् ॥ २३ ॥

 ताः पत्नीः-स्ववेश्मगताः पत्नीरित्यर्थः । 'पत्युर्नो यज्ञसंयोगे' इति-नकारोऽन्तादेशः । दीक्षां विशतेति । दीक्षाविषयकदृढबुद्धिं संगच्छध्वमिति यावत् ॥ २३ ॥

 तासां तेनातिकान्तेन वचनेन सुवर्चसा ।
 मुखपद्मान्यशोभन्त पद्मानीव हिमात्यये ॥ २४ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे अष्टमः सर्गः

 अतिकान्तेन–अत्यन्तमिष्टेन । वर्चो दीप्तिः-सुप्रकाशेन सुशो-भनेनेत्यर्थः । अर्धाधिकचतुर्विंशतिः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे अष्टमः सर्गः


अथ नवमः सर्गः

[सुमन्त्रेण दशरथाय सनत्कुमारवचसो निवेदनम् ]

 एतच्छ्रुत्वा रहस्सूतो राजानमिदमब्रवीत् ।
 [२][३]ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ॥ १ ॥


  1. उप, सं, दिष्ट इति पदत्रयं, तत्र सं इत्यस्य आप्यतामित्यत्रान्वयः । तथा च उपदिष्टः, समाप्यतामिति निष्पन्नमिति भावः ।
  2. एतदनन्तरं-श्रूयतां तत्पुरावृत्तं पुराणे च मया श्रुतम् । इदम कुत्रचिदधिकं-ङ.
  3. एतदनन्तरं-श्रूयतां तत्पुरावृत्तं पुराणे च मया श्रुतम् । इदम कुत्रचिदधिकं-ङ.