पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
114
[बालकाण्डः
ऋश्यशृङ्गोपाख्यानम्

 अथ पुत्रप्राप्त्यसाधारणोपायप्रवृत्तिप्रस्तावः-एतच्छ्रुत्वेत्यादि । एतदिति । पुत्रार्थं अश्वमेधप्रवृत्तिमित्यर्थः । सूतः-सुमन्त्रः । [१]स तूभयधर्मा राज्ञः । इदं वक्ष्यमाणम् । अयं अश्वमेधप्रवृत्तिरूपपुत्रार्थोपायस्ते ऋत्विम्भिरुपदिष्टः, मया तु पुरावृत्त इति स्वरूपतोऽन्य एव त्वत्पुत्रावाप्तये श्रुतः ॥ १ ॥

 सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ।
 ऋषीणां सन्निधौ राजन् ! तव पुत्रागमं प्रति ॥ २ ॥

 कथमित्यतः-सनत्कुमार इत्यादि । कथामिति । सर्वज्ञत्वाद्भविष्यद्विषयिणीमिति शेषः ॥ २ ॥

 काश्यपस्य तु पुत्रोऽस्ति [२]विभण्डक इति श्रुतः ।
 ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ॥ ३ ॥

 का भविष्यन्मत्पुत्रप्राप्तिविषयिणी कथेत्यतः-काश्यपस्येत्यादि । विभण्डकास्तित्वं सनत्कुमारकथाकथनकालीनम् । ऋश्यशृङ्गजनिस्तस्मात् भाविनी । तदाख्यातो भविष्यतीति । धातुसम्बन्धे प्रत्यया इति न्यायेन भूतभविष्यतोस्साधुत्वम् ॥ ३ ॥

 स वने नित्यसंवृद्धो मुनिर्वन [३]चरस्सदा ।
 नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ॥ ४ ॥

 नित्यसंवृद्धः-पुरपौरग्रामग्रामीणादिस्वरूपव्यापारानुभवराहित्येनैव संवृद्धः-पित्रा वर्षित इत्यर्थः । अत एव वनचरत्वादि । पित्रनुवर्तनादिति। न क्वापि त्वया गन्तव्यं इति पित्राज्ञानुवर्तनादित्यर्थः ॥ ४


  1. उभयधर्मा-सूतो मन्त्रिश्च,
  2. विभाण्डकः-ङ.
  3. चरैः-ङ.