पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
111
तस्यानुमेनिरे मावं वसिष्ठाद्या महर्षयः

 सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ।
 शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि ॥ १५ ॥

 शान्तयश्चेति । 'अश्वमुत्सृक्ष्यन्निष्टिभ्यां यजेत शुक्रं चान्द्रमस्या सौर्ययेतरम्' इति श्रौती शान्तिः, स्मार्ती भगवतो ब्रह्मणस्पतेर्विघ्नेश्वरस्य समाराधनलक्षणः, तथान्याश्च शान्तयः-शान्तिकर्माणि अभिवर्द्धन्तां–प्रवर्तयन्तामिति यावत् । 'वर्धन्तु त्वा सुष्टुतयः' इति-वदार्षत्वाच्छपोऽप्यार्धधातुकत्वेन णिलोपः । यथाकल्पं-शान्तिकल्पोक्तपुण्याहवाचनादि कर्मानुक्रमप्रकारम् । यघाविधि-इदं कर्मैवं कर्तव्यमिति विधिं चानतिक्रम्येत्यर्थः ॥ १५ ॥

 [१]शक्यः प्राप्तुमयं यज्ञः सर्वेणापि महीक्षिता ।
 नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे ॥ १६ ॥

 सर्वेणापि राजमात्रेण-देवतानुग्रहरहितेनापि चेत्यर्थः । अपराधः-प्रायश्चेतव्यविध्यपराधः। यदिशब्दो यथापर्यायः, अव्ययानामनेकार्थत्वात् । अस्मिन् ऋतौ कष्टस्स यथा न भवेत्तथा प्रयत्यतामिति शेषः ॥ १६ ॥

 [२]छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः ।
  निहतस्य च यज्ञस्य सद्यः कर्ता विनश्यति ॥ १७ ॥

 सर्वथा विध्यपराधाभावार्थं यतितव्यमित्याह-छिद्रमित्यादि । विद्वांसः-अश्वमेधप्रवृत्तिं जानन्तः ब्रह्मराक्षसाः-अकृतप्रायश्चित्तप्रतिमहायाज्ययाजनादिपापेन राक्षसत्वं प्राप्ता ब्राह्मणाः, तथा । ये तु


  1. प्राप्तुं शक्य इति काकुः-ति. अस्मिन् क्रतुसत्तमे अपराधो यथा न भवेत् तथा प्राप्तुं शक्यः किमित्यन्वयो वा.
  2. विद्वांसो ब्रह्मेव, राक्षसा छिद्रं मृगयन्ति-इति