पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
110
[बालकाण्डः
अश्वमेधयजनोद्यमः

 ततस्साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन् ।
 वसिष्ठप्रमुखास्सर्वे पार्थिवस्य [१]मुखेरितम् ॥ १० ॥

 पार्थिवस्य मुखेरितं-साक्षात्तन्मुखानिर्गतम् ॥ १० ॥

 ऊचुश्च परमग्रीताः सर्वे दशरथं वचः ।
 [२]सम्भारास्सम्भ्रियन्तां ते तुरगश्च विमुच्यताम् ॥ ११ ॥

 ते अश्वमेधीयाः प्रसिद्धाः सम्भाराः-एकविंशतियूपपात्रशालामुखाः सम्भ्रियन्ताम् ॥ ११ ॥

 सर्वथा प्राप्स्यसे पुत्रानभिप्रेतांश्च पार्थिव ।
 यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागता ॥ १२ ॥

 पुत्रानिति बहुवचनं विवक्षितबहुत्वम् । धार्मिकी-'धर्मं चरति' इति ठक्, धर्माचरणविषयिणी ॥ १२ ॥

 ततः प्रीतोऽभवद्राजा श्रुत्वैतद्दि्वजभाषितम् ।
 अमात्यांश्चाब्रवीद्राजा हर्षपर्याकुलेक्षणः ॥ १३ ॥

 प्रीतोऽभवदिति । सर्वथा प्राप्स्यसे इति प्रतिज्ञानात् । कर्म-कर्तरीदमात्मनेपदम् । हर्षेण-तज्जानन्दाश्रुणा पर्याकुले-परिप्लवे ईक्षणे यस्य स तथा ॥ १३ ॥

 सम्भारास्सम्भ्रियन्तां मे गुरूणां वचनादिह ।
 समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम् ॥ १४ ॥

 इहेति । अस्मिन् काले सरयूत्तरतीरे चेत्यर्थः । समर्थाधिष्ठितः 'चतुश्शता रक्षन्ति यज्ञस्याघाताय' इति श्रुतेः, रक्षण समर्थैश्चतुश्शतराजपुत्रै रक्षित इत्यर्थः । सोपाध्यायः-'अश्वस्य मेध्यस्य पदे पदे जुह्वति' इति होमापेक्षितोपाध्यायसहितस्तथा ॥ १४ ॥


  1. मुखाच्च्युतम्-ङ.
  2. एतदनन्तरं, सरय्याश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम् ॥ इदमधिकं-ङ.