पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
109
अपुत्रस्त्वथ राजाऽसौ अश्वमेघे मतिं दधौ

 सुयज्ञं वामदेवं च जाबालिमथ काश्यपम् ।
 पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः ॥ ६ ॥

 तत्र सुयज्ञादयः तत्तद्विद्याविशेषगुरवोऽध्यापकाः । वसिष्ठः पुरोहितः । तदेवोक्तम्-पुरोहितं वसिष्ठं चेति । ननु 'उपनयीत तमध्यापयीत' इति विधेरुपनेतुरेवाध्यापकत्वाद्वसिष्ठस्यैव च पुरोहितत्वत उपनेतृत्वात् कथं गुर्वन्तरसंबन्धः-उपनीतस्य स्वयं स्वशिष्यप्रायेषु स्वपौरोहित्यादिव्याक्षेपादध्ययनाय नियोजनादिति ब्रूमः । ये चान्य इति । अश्वमेधार्त्विज्यापेक्षिता इति शेषः ॥ ६ ॥

 तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा ।
 इदं धर्मार्थसहितं वाक्यं श्लक्ष्णमथाब्रवीत् ॥ ७ ॥
 मम [१]लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम् ।
 तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम ॥ ८ ॥

 पुत्रार्थं–पुत्रप्राप्तिमुद्दिश्य, लालप्यमानस्य-लपेर्यङन्तात् शानच्, पुनः पुनः भृशं विलपतः मम राज्यादिनापि सुखं नास्ति, वै प्रसिद्धौ । तदर्थं पुत्रार्थं हयमेघेन यक्ष्यामीति मतिः-दृढाध्यवसायोऽद्य मम संवृत्तः ॥ ८ ॥

 तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा ।
 कथं प्राप्स्याम्यहं कामं बुद्धिरत्र विचार्यताम् ॥ ९ ॥

तत्-तस्मात् । अहं यष्टुं-यागकर्मणि प्रवर्तितुं इच्छामि । कर्मणा-विधिना अहं कामं- पुत्रप्राप्तिलक्षणाभीष्टं कथं प्राप्स्यामीत्यत्र बुद्धिः-उपायः विचार्यताम् ॥ ९ ॥


  1. अत्र तातप्यमानस्येत्यपि पाठः (तिलके) च.