अथ अष्टमः सर्गः
[पुत्रार्थं अश्वमेधयजनोद्यमो दशरथस्य]
तस्य त्वेवंप्रभावस्य धर्मज्ञस्य महात्मनः ।
सुतार्थं तप्यमानस्य नासीद्वंशकरस्सुतः ॥ १ ॥
एवं समग्रसार्वभौमगुणस्यापि सत्पुत्रेणार्जितपितृलोकत्वात्, तदितरगुणानां तदभावे अगुणकल्पत्वात्, 'सर्वं वाऽश्वमेध्याप्नोति' इति श्रुतेः, पुत्रार्थमप्यश्वमेधेन प्रवृत्तिरष्टमेन–तस्येत्यादि । तप्यमानस्येति । तपो लटश्शानाचि श्यन् । सन्तापं कुर्वाणस्येत्यर्थः । वंशकरः, कृञो हेतौ टः ॥ १ ॥
चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः ।
सुतार्थी वाजिमेधेन किमर्थं न यजाम्यहम् ॥ २ ॥
चिन्तयानस्येति । आनेमुगभावश्छान्दसः । एवमिति वक्ष्यमाणप्रकारम् ॥ २ ॥
स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान् ।
मन्त्रिभिस्सह धर्मात्मा सर्वैरेव कृतात्मभिः ॥ ३ ॥
यष्टव्यामिति निश्चितां मतिमिति योजना ॥ ३ ॥
ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम् ।
शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान् ॥ ४ ॥
ततस्सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः ।
समानयत् स तान् सर्वान् समेतान् वेदपारगान् ॥ ५ ॥
समानयत्स तान्सर्वानिति । तान्-प्रसिद्धान् सपुरोहितांस्तानिति योजनीयम् । तच्छब्दद्वयस्य विद्यमानत्वात् ॥ ५ ॥