पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः]
107
तैर्युक्तः स बभौ राजा दिवि देवपतिर्यथा

 विश्रुतस्त्रिषु लोकेषु वदान्यस्सत्यसङ्गरः ॥ २० ॥
 स तत्र पुरुषव्याघ्रश्शशास पृथिवीमिमाम् ।

 अत एव हेतोः–विश्रुत इत्यादि । तत्र-अयोध्यायाम् ॥ २० ॥

 नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः ॥ २१ ॥
 मित्रवान्नतसामन्तः प्रतापहतकण्टकः ।
 स शशास जगद्राजा [१]दिवि देवपतिर्यथा ॥ २२ ॥

 मित्रवान् । नताः सामन्ताः यस्मै स तथा । कण्टकाः-शत्रव-श्चोराश्च । यथेति-दिवमिति शेषः ॥ २१ ॥

 तैर्मन्त्रिभिर्मन्त्रहिते नियुक्तैः
  वृतोऽनुरक्तः कुशलैस्समर्थैः ।
 स पार्थिवो दीप्तिमवाप युक्तः
  तेजोमयैर्गोभिरिवोदितोऽर्कः ॥ २३ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे सप्तमः सर्गः

 मन्त्र इति । मन्त्रो विचारः, तत्साध्यं हितं तथा । कुशलैः-मन्त्रप्रयोगकुशलैः । समर्थैः- मन्त्रतत्त्ववेदनसमर्थैः, तेजोमयैः-स्वार्थिको मयट् । गोभिः-किरणैः युक्तः उदितः-प्राप्तोदयोऽर्क इवेति योजना ॥ २२ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे सप्तमः सर्गः


  1. दिवं-ङ,