पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
106
[बालकाण्डः
अमात्यादिवर्णनम्

गृहीतगुणदोषा इति; शान्तं पापं, अलमेतन । प्रख्याताश्च पराक्रम इति । अयं सर्वतो विदेशेष्वपि विज्ञातत्वे हेतुः । बुद्धिनिश्चयात्-बुद्ध्या सम्पन्नसन्ध्यादिशास्त्रविषयको निश्चयस्तथा, तस्मात् ॥ १६ ॥

 [१]सन्धिविग्रहतत्त्वज्ञाः प्रकृत्या सम्पदान्विताः ॥
 मन्त्रसंवरणे सक्ताः श्लक्ष्णास्सूक्ष्मासु बुद्धिषु ॥ १७ ॥
 नीतिशास्त्रविशेषज्ञाः सततं प्रियवादिनः ॥

 सन्ध्यादितत्त्वज्ञाः प्रकृत्या-राजस्वभावत्वादेव, सम्पदा-धनधान्यदासीदासादिशिबिकाद्यैहिकसम्पदाऽन्विताः । इदमेव च सर्वतस्समर्थत्वे मूलम् । न हि दरिद्रवचः सभामारुरुक्षति । मन्त्रो राष्ट्रायव्ययादिविचारः, तद्ग्रहणे-तत्साधनसङ्ग्रहणे इत्यर्थः । सूक्ष्मासु बुद्धिषु-विचारेषु सक्ताः, लक्ष्णाः-अरूक्षस्वभावाः ॥ १७ ॥

 ईदृशैस्तैरमात्यैश्च राजा दशरथोऽनघः ॥ १८ ॥
 उपपन्नो गुणोपेतैरन्वशासद्वसुन्धराम् ।

 ईदृशैः–'विद्याविनीताः' इत्याद्यारम्भोपदिष्टविशेषणविशिष्टैः । अत एव गुणोपेतैः समग्रामात्यगुणोपेतैः-तैः अमात्यैः उपपन्न इति योजना । अन्वशासत्-लुङि 'सर्तिशस्ति' इत्यङ् ॥ १८ ॥

 अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन् ॥ १९ ॥
 प्रजानां पालनं कुर्वन्नधर्म परिवर्जयन् ।

 अवेक्षमाणः–स्वपरदेशवृत्तान्तमिति यावत् । अधर्मं परिवर्जयन्निति हेतौ शता ॥ १९ ॥


  1. एतत्पूर्वे अमितो गुणवन्तश्च नचासन्गुणवर्जिताः ॥ इदमधिकं-ङ, शक्ताः- ङ.