पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सर्गः]
105
सर्वशास्त्रार्थतत्त्वज्ञाः स्मितपूर्वाभिभाषिणः

 शुचीनामेकबुद्धीनां सर्वेषां सम्प्रजानताम् ।
 नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्वचित् ॥ १३ ।।

 शुचीनामित्यादि । शुचिशब्दो व्याकृतः । एकबुद्धीनां-अन्योन्यमेककण्ठानाम्, तथा सम्प्रजानतां-पुरराष्ट्रवृत्तान्तं विचारयतां तेषां मन्त्रिणां विचारविषये पुरादौ मृषावादी कश्चन नासीत् । [१]एवं पाङ्के स्थिते शुचिषु सम्प्रजानत्सु अनुतवादी नासीत् इति भावलक्षणे षष्ठी च भवति, 'षष्ठी चानादरे' इति योगविभागात्, अनादराभावे षष्ठीत्यस्माभिरुच्यत इति मिथ्यापाण्डित्यं प्राचीकटत् ॥ १३ ॥

 कश्चिन्न दुष्टस्तत्रासीत् परदाररतो नरः ।
 प्रशान्तं सर्वमेवासीत् राष्ट्रं पुरवरं च तत् ॥ १४ ॥

 प्रशान्तं-प्रशान्तान्यायाधर्मकम् ॥ १४ ॥

 सुवाससस्सुवेषाश्च ते च सर्वे सुशीलिनः ।
 हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा ॥ १५ ॥
 [२][३]गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमे ।
 विदेशेष्वपि विख्याताः सर्वतो बुद्धिनिश्चयात् ॥ १६ ॥

 गुरौ-स्वस्वाचार्ये गुणगृहीताः-अर्थतः कार्यतश्शुश्रूषागुणेन विद्याग्रहणादौ सौबुद्ध्यादिगुणेन च आप्ततच्छिष्यतया परिगृहीताः । एतेन सर्वमूलसद्गुर्वनुग्रहप्राप्तसर्वविद्यात्वमुपदिष्टम् । कश्चित् गुणगृहीताः-गृहीतगुणदोषाः-आहिताग्निवदित्यादिना मिथ्यामुक्त्वा तस्य व्याख्यानं चाह । तेन गुराविति पदमनन्वितमिव उपेक्षणीयम् । न च गुरावेव


  1. गोविन्दराजीयम् .
  2. आचार्येषु गृहीतगुणाः । गुणमात्रग्राहिणो दोषमपश्यन्त इत्यर्थः-गो. गुरोः--सम्बन्धसामान्ये षष्ठी गुरुणा आचार्येण राज्ञा च गुणवत्तया गृहीताः-ति.
  3. गुरोर्गुणगृहीताश्च गुणागुणगृ-ङ.