पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
104
[बालकाण्डः
अमात्यादिवर्णनम्

 परीक्षिताः । राज्ञेति शेषः । परीक्षा तु बहुशस्स्वेष्टप्रवृत्तिपरा निष्टाऽप्रवृत्त्यादिविषयिणी । प्राप्तः सापराधत्वलक्षणः कालो यस्य स तथा । धारयेयुरिति । प्रवर्तयन्तीत्यर्थः ॥ ९ ॥

 कोशसङ्ग्रहणे युक्ता बलस्य च परिग्रहे ।
 अहितं वाऽपि पुरुषं न [१]हिंस्युरविदूषकम् ॥ १० ॥

 कोशसङ्ग्रहणं बलपरिग्रहहेतुः । बलं-चतुरङ्गबलम् । तस्य परिग्रहः-पुनःपुनरश्वादेस्सङ्ग्रहः। अहितमिति । स्वहिताचरणरहितमुदासीनमिति यावत् । अविदूषकमिति । दोषः-अपराधः, तदकर्तारमिति यावत् । 'दोषो णौ' इत्युत्वम् । तस्मात् स्वार्थण्यन्तात् ण्वुल् ॥ १० ॥

 वीराश्च नियतोत्साहा राजशास्त्रमनुष्ठिताः ।
 शुचीनां रक्षितारश्च नित्यं विषयवासिनाम् ॥ ११ ॥

 राजशास्त्र-"राज्ञस्तु विशेषणान् वक्ष्यामः । दक्षिणद्वारं वेश्म पुरं च मापयेत् । अन्तरस्यां पुरी वेश्म" इत्यादिना धर्मशास्त्रेण विशिष्य राज्ञ उपदिश्यमानं शास्त्रं राजशास्त्रम्, कामन्दकादिप्रणीतं सामादि विषयकनीतिशास्त्रं राजनीतिशास्त्रं च । स्तेयानृतरहिताश्शुचयः । विषयो देशः ॥ ११ ॥

 ब्रह्मक्षत्रमहिंसन्तः ते कोशं सम्पूरयन् ।
 सुतीक्ष्णदण्डास्संप्रेक्ष्य पुरुषस्य [२]बलाबलम् ॥ १२ ॥

 ब्रह्मक्षत्रमिति । सर्वो द्वन्द्वो विभाषेत्येकत्वम् । पुरुषस्य-दण्ड्य-पुरुषस्य । बलाबलं-अपराधतारतम्यम् । सम्प्रेक्ष्य तदनुसारेण-सुतीक्ष्णदण्डाः निर्घृणप्रवृत्तदण्डाः । अयं कोशपूरणहेतुः ॥ १२ ॥


  1. विहिंस्युरदू-ङ.
  2. बलाबलं-अपराधतारतम्यं शक्तितारतम्यं वा-गो.