काव्यं हि द्विविधं-दृश्यं श्रव्यं च । श्रव्यमपि पद्य-गद्य-चम्पूभेदेन भिन्नम् । तत्र पद्यकाव्यस्य लक्षणं तु [१]'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम्' इत्यारभ्योक्तं प्रसिद्धमेव । परन्त्ववेदं विमर्शनीयम्-लक्ष्यानुगुणमेव लक्षणं निरुच्यते लाक्षणिकैः । तत्र पूर्वोक्तरीत्या लक्षणं निर्वचन्तः लाक्षणिकाः किमिति प्रथमलक्ष्यभूतरामायणगतं वैशिष्ट्यं उपेक्षितवन्तः ? इति न जानीमः ।
अत्रेमे श्लोकखण्डाः अवधानार्हाः-
'सर्वश्रुतिमनोहरम्' (बाल-4-22)
'पाठ्ये गेये च मधुरम्' (बाल-4-8)
'काव्यमेतद्गायताम्' (बाल-4-9)
'अगायतां मार्गविधानसंपदा' (बाल-4-39)
'जगतुस्तौ समाहितौ' (बाल - 4 - 18 )
'इदं काव्यमगायताम्' (बाल-4-14)
मधुरं तावगायताम् (बाल-4-19)
'विश्रुतार्थमगायताम्' (वाल - 4-28)
'श्रोत्राश्रयसुखं गेयम्' (बाल-4-29)
'रामायणं काव्यं गायेथाम्' (उत्तर-93-5)
'आस्वाद्यास्वाद्य गायताम्' (उत्तर-93-8)
'ततो गेयं प्रवर्तताम्' (उत्तर-93-10)
'गेया मधुरया गिरा' (उत्तर-93-11)
'सुमधुरं गायेथाम्' (उत्तर -93-14)
;आदिप्रभृति गेयम्' (उत्तर-93-15)
'गायेथां मधुरं गेयम्' (उत्तर-93-16)
'सर्वं तत्रोपगायताम्' (उत्तर-94-1)
'गेयेन समलङ्कृतम्' (उत्तर-93-2) इत्यादयः ।}}
- ↑ एतत्संपुट एव 87 पुटे द्रष्टव्यम् ।