पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
7

 'काव्यं रामायणं कृत्स्नं' इत्यादौ काव्यं रामायणत्वेन विशेषितम् । 'सीतायाश्चरितं महत्' इति सीताचरितस्य महत्वोक्तथा सीताचरितस्य प्राधान्यमिति तु न भ्रमितव्यम्; तत्रत्य महच्छब्दः काव्यान्वयीति तत्रैव निर्णीतत्वात्' ।

 अत्र कतकोक्तं शिरोमण्युक्तं च समाधानं हृदयङ्गममेव ।

 वस्तुतस्तु–'आत्मप्रशंसा त्याज्या' इत्यादौ स्वेन स्वस्य प्रशंसनस्यैव हेयत्वमुच्यते । तदेव 'विकत्थनत्वम्' । 'प्रत्यक्षे गुरवः स्तुत्याः' इत्यादिवचनं सङ्गच्छते। स्वप्रशंसाश्रवणं तु कवीनामाश्रयदातू राज्ञो नैव स्वबिरुदादीन खलु स्वपुरतो घोषयन्ति राजानः । तस्य-प्रजानां स्वस्मिन् अनुरागस्य विश्वासस्य चाधानमित्याद्यन्य-देतत् । सहस्रनामसु भगवतो हि 'स्तवप्रियः' इति नाम पठ्यते ।

 किञ्च आत्मचरितश्रवणं, आत्मप्रशंसनं च विलक्षणमेव । महात्मानोऽपि स्वचरितं स्वयं लिखन्ति इदानीं; न हि ते स्व-प्रशंसकाः । अतः चरितमन्यत्, प्रशंसा चान्यैवेति ।

 एवञ्चास्य महाकाव्यस्य रामचरितप्राधान्ये न किञ्चिद्वाधकम् ।आदरविशेषवशाच्च सीताचरितप्राधान्यवचनं महतां केषाञ्चिदिति भावयामः ।[१]

 गोविन्दराजार्या अपि द्वितीयसर्गव्याख्यायां[२] 'प्रबन्ध-नायकस्य रामस्य नायकगुणा दर्शिताः, नायकगुणवर्णनेन हि काव्यं प्रथते' इति वदन्तः हार्द भावमावेदयन्ति ।

शृण्वन् रामकथानादम् !

 'शृण्वन् रामकथाकाव्यं को न याति परां गतिं' इति न श्रूयते, किन्तु 'रामकथानादम्' इति । अतः प्रस्तावनारंभे 'तथ्यमिदं वाक्यमक्षरशः' इत्युक्तमस्माभिः । तथा हि-

 अस्य आद्यकाव्यत्वेन प्रसिद्धया इदं रामायणं इतरलौकिक-काव्यवर्गेष्वेवान्तर्भवतीति वक्तव्यम् । परन्तु आर्षकाव्यं स्यान्नाम । आर्षत्वं तद्वैशिष्ट्यहेतुः स्यात् कामम् !


  1. 'बाल. 4-31 श्लोकटिप्पण्यपि द्रष्टव्या.
  2. बाल. 2-32.