पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
6

इति भिन्नं वाक्यं पूर्वोक्तरामायणरचन-कुशलवपरिग्रहण-रामायणपाठनरूपाणां कर्मणां सामान्यत उपसंहारार्थं प्रवृत्तम् । एवञ्च-प्रभुः-वाल्मीकिः तौ-कुशलवौ सीताचरितप्रतिपादकं रावणवधप्रतिपादकं, रामचरितपरं रामायणसंज्ञकं कृत्स्नमपि महत् काव्यमग्रहायत-अपाठयत । कृत्स्नमिति क्रियाविशेषणं इत्येवं स्वकर्तव्यं सर्वे कृत्वा वाल्मीकिः कृतकृत्योऽभूत् इति 'इत्येवं चकार चरितव्रतः' इत्यनेनोच्यते । इत्येवेति पाठेऽपि अर्थस्तुल्य एव । एवं वाल्मीकिकृत्योपसंहारकथनानन्तरं शिष्य कर्तव्यमनन्तरश्लोकैः 'पाठ्ये गेये च मधुरं मधुरं तावगायताम्' इत्यादिभिरुच्यते ।
 एवञ्च न कोऽपि दोषः प्रसज्यते ।
 तथाच पूर्वोदाहृतैर्बहुभिर्वचनैः रामचरितस्यैव प्राधान्यप्रतीतौ नायं श्लोको बाधक इति रामचरितमेव प्रधानविषयोऽस्य काव्यस्येति युक्तम् ।

 अविकत्थनो रामः स्वप्रशंसापरं काव्यं कथं सदसि शुश्राव ? कथं वा स्वचरितपरं काव्यं स्वयमेव 'महानुभावं चरितं निबोधत'[१] इति प्रशशंस ?
 अत्रेमानि व्याख्यानानि-
 कतकः-'परिषदि स्वप्रशंसार्थकत्वेन महापुरुषत्वात् लज्जया शनैश्शनैः प्रवृत्तिरिति द्योत्यते[२] शनैरिति पदेन ।'
 तिलकः–'अस्य श्लोकस्य लक्ष्मणादीनामेदच्छ्रवणप्रवर्तकार्थत्वेन-न दोषः' ।
 शिरोमणिः–' एतेन आत्मयशो न श्राव्यमित्याशङ्क्य सीताचरितत्वात् रघुनाथेन श्रुतमिति-शङ्कासमाधानमापाततो रमणीयम् । आत्मयशो न श्राव्यमित्यादिनिषेधानां गर्वनिवारणतात्पर्यकाणां संभावितगर्ववत्प्राकृतजनपरत्वेन अत्र निषेधशङ्कानवसरत्वात् । सीताचरितपरत्वेन समाधानमप्ययुक्तम्, तच्चरितस्य रामचरितानतिरेकेण शङ्कायास्तादवस्थ्यात् । .......अत एव


  1. बाल 4-30.
  2. बाल 4-31.