पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

'प्रातर्द्यूतप्रसङ्गेन' इत्यादिवचनमपि चमत्कारविशेषमात्रम्, अन्यथा भारतस्य द्यूतप्रधानत्वप्रसङ्गात् ।

 किञ्चात्र 'कृत्स्तं रामायणं सीताचरितपरम्' इति नेयं वाचो युक्तिः, तेषां पदानां द्वितीयान्तत्वात् । अन्यथा 'पौलस्त्यवधम्' इत्यनुपपन्नं स्यात्, वधशब्दो हि पुंलिङ्गान्तः ।

 अतः अत्रैवमन्वयः-एतत्सर्गारम्भ एव 'चकार चरितं कृत्स्नं' इति रामायणरचनमभिहितम्, अतः पुनरत्र 'रामायणं चकार' इति कथनस्य न प्रसक्तिः । प्रथममुक्तस्य विवरणरूपमिदमिति कथने, तर्हि तदनन्तरमेवायं श्लोकः स्यात् । न तु एतावद्य्ववधानेन । 1-2 श्लोकाभ्यां रामायणरचनमुक्तम् । 3 श्लोकेन रामायणप्रयोगाधिकार्यन्वेषणमभिहितम् । 4 श्लोकेन कुशलवागमनं 5 श्लोकेन कुशलवयोः प्रयोगार्हत्वेन वाल्मीकिदर्शनं, 6 श्लोकेन तेभ्यो रामायणप्रदानं चाभिहितम् । 8-9 श्लोकाभ्यां कुशलवाभ्यां रामयणगानमुक्तम् । एतादृशक्रममध्ये, तृतीयश्लोक एव 'कृत्वाऽपि तत्' इति रामायणरचनस्य वृत्तत्वेनानुवादे स्पष्टे सति च 7 श्लोकेन पुनरपि 'रामायणं चकार' इति कथनं कथं घटताम् । ' इत्येवं ' इत्यस्य स्वरसतोऽन्वयो न भवत्येव । 'इत्येव' इति पाठेऽपि तथैव ।

 किञ्च, 'तावग्राहयत' इत्यत्र 'तौ अपाठयत' इति स्वरसतो निर्वाहसंभवे स्वार्थणिजाश्रयणमयुक्तम् । अग्राहयत' इति च द्विकर्मकः । 'तौ' इत्येकं कर्माभिहितम् । किं अपाठयत् ? इति द्वितीयकर्मप्रश्ने तदुत्तरसमर्पकत्वमेवानन्तरश्लोकस्य युक्तम् । एवमेव शिरोमणिना व्याख्यातम् । परन्तु शिरोमणिव्याख्यानेऽपि क्लेशो वर्तत एव । 'इति यत् काव्यं चकार 'इत्यन्वये, इतिशब्देन व्यवधानात् । पौलस्त्यवधादिशब्दानां द्वितीयान्तत्वं च न स्यात् । 'चकारेति यत् तदेवाग्रहयत' इति त्वनन्वितम् ' यच्छब्दो हि तदा धात्वर्थकर्मवाची, तस्य पाठनं न संभवत्येव । यत्तच्छब्दाध्याहारश्च ।

 अतः एवमन्वयो युक्तः-'तावग्राहयत' इत्यस्यैव द्वितीय कर्मसमर्पकं 'पौलस्त्यवधं' इति पर्यन्तम् । 'इत्येवं चकार चरितव्रतः'