'कुरु रामकथां पुण्याम्' (बाल-2-36)
'रघुवरचरितं मुनिप्रणीतम्' (बाल--2-43)
'रघुवंशस्य चरितम्' (बाल-3-9)
'प्राप्तराज्यस्य रामस्य चकार चरितं कृत्स्नम्'
'रामस्य ये चेमां संहिताम्' (युद्ध-131-124)
'चरितं राघवस्य' (उत्तर-111-19) (उत्तर-111-23)
'रघुनाथस्य चरितम्' (उत्तर-111-21)
'चरितं तव' (उत्तर-94-27)
'शुश्राव रामचरितम्' (उत्तर-74-14 & 16)
इत्यादीनि । एवं स्वरसतः प्रतीतस्यार्थस्य बाधने किं नियामकं स्यात् ? 'कृत्स्नं सीतायाश्चरितं' इति वाक्यं, स्वप्रशंसापरकाव्यस्य रामेण श्रवणानुपपत्तिश्चेति तत्र निमामकं वक्तव्यम् ।
परन्तु 'कृत्स्न' पदस्य पूर्वेणाप्यन्वयसंभवात् अन्यथा-सिद्धमिदम् ।
'रामस्य चरितं कृत्स्नं कुरु त्वम्' (बाल-2-32)
'रामस्य चकार चरितं कृत्स्नम्' (बाल-4-1 )
'कृत्स्नं रामायणं काव्यम्' (बाल-2-41, उत्तर-93-4)
इत्यादिषु कृत्स्नपदं काव्यविशेषणमेवेति प्रकृतेऽपि तथैव युक्तम् । कृत्स्नमिति क्रियाविशेणं वा । अन्यथा 'कृत्स्नं सीताचरितं' इत्यर्थो बाधितः स्यात् । 'कृत्स्नं रामचरितं' इत्यर्थे तु तत्पत्न्याः सीतायाः चरितस्य, फलस्य रावणवधस्य च रामचरितन्यग्भूतत्वेन न कश्चन बाधः ।
'श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे[१] इत्युक्तिरपि 'श्रियं त्वत्तोऽप्युच्चैर्वयमिह भणामः शृणुतराम्'[२] इत्यादिवत् स्तोतव्यवस्तुन्यादरातिशयात् ।