पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
92
[बालकाण्डः
अयोध्यानगरवर्णनम्

 चित्रामष्टापदाकारां [१]वरनारी[२]गणैर्युताम् ।
 सर्वरत्नसमाकीर्णां विमानगृहशोभिताम् ॥ १६ ॥

 [३]अष्टापदं-स्वर्णं, तद्रूपभूषणादिकृतः आकारः-अलङ्कारो यस्याः सा तथा । विमानगृहं-सप्तभूमिगृहम् । 'विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि 'इति [४]भास्करः ॥ १६ ॥

 गृहगाढामविच्छिद्रां समभूमौ निवेशिताम् ।
 शालितण्डुलसम्पूर्णामिक्षकाण्डरसोदकाम् ॥ १७ ॥

 गृहैः–पौरकुटुम्बिगृहैः गाढां-निबिडाम् । अत एव अविच्छिद्रां-शून्यगृहरहितरथ्याम् । इक्षुकाण्डरससमानस्वादूदकवतीम् ॥ १७ ॥

 दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा ।
 नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम् ॥ १८ ॥

 दुन्दुभीभिरिति । 'अन्येषामपि' इति दीर्घः । भृशं नादिताम् । पृथिव्यां अत्यर्थं-अत्यन्तमनुत्तमाम् ॥ १८ ॥

 विमानमिव सिद्धानां तपसाधिगतं दिवि ।
 सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम् ॥ १९ ॥

 तपसाधिगतमिति विमानविशेषणम् । सुनिवेशितः वेश्मानामन्तः-अन्तर्गेहप्रदेशः यस्यास्सा तथा ॥ १९ ॥

 ये च बाणैर्न विध्यन्ति विविक्त [५]मपरावरम् ।
 शब्दवेध्यं च विततं लघुहस्ता विशारदाः ॥ २० ॥


  1. नरनारी-ङ.
  2. गणायुताम्-ङ.
  3. 'अष्टापदं शारिफलं' इत्यमरः । तदाकारां तत्सदृशसंस्थानामित्यर्थः । मध्ये राजगृहं, चतुर्दिक्षु राजवीथयः । तन्मध्येष्ववकाशाश्चेत्येवंविधसंस्थानामित्यर्थः-गो.
  4. निघण्टुः-ग.
  5. मपरापराम्-ङ.