पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
91
सर्वरत्नसमाकीर्णा नरोत्तमसमावृता

 वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम् ।
 उद्यानाभ्रवणोपेतां महतीं सालमेखलाम् ॥ १२ ॥

 वधूनाटकशालासङ्घातैस्तथा । सर्वतो ग्रन्थगौरवभयात् उचितमेवार्थं निश्चित्य लिखामः । न तु यद्वाव्याधिमाश्रयामः । पुरीं सर्वत इति । 'उभसर्वतसोः कार्या' इत्यादिना द्वितीया । आम्रवणेति ।'प्रनिरन्तः' इत्यादिना णत्वम् । सालः-प्राकारः ॥ १२ ॥

 दुर्गगम्भीरपरिधां दुर्गामन्यैर्दुरासदाम् ।
 वाजिवारणसम्पूर्णां गोभिरुष्ट्रैः खरैस्तथा ॥ १३ ॥

 [१]जलदुर्गैः गम्भीरा-अगाधा परिधा यस्यां सा तथा । अत एवान्यैः दुर्गा, 'अन्यत्रापि' इति डः । दुरासदां-अशक्यसमीपगमनामित्यर्थः ॥ १३ ॥

 सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम् ।
 नानादेशनिवासैश्च वणिग्भिरुपशोभिताम् ॥ १४ ॥

 समन्ताद्भवाः सामन्ताः । बलिः-करः । मूलप्रभवे दशरथाय बलिदानरूपं कर्म येषां ते तथा ॥ १४ ॥

 प्रासादै रत्नविकृतैः [२]पर्वतैरुपशोभिताम् ।
 कूटागारैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ॥ १५ ॥

 विशेषेण कृताः विकृताः, पर्वताः-क्रीडापर्वताः । कूटः-शाला । अगारं-गृहम् ॥ १५ ॥


  1. दुर्गेण-घ.
  2. सर्वतश्चोप-ङ.