पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
88
[बालकाण्डः
कथावतारः

आशीर्नमस्क्रियावस्तुनिर्देशो वापि तन्मुखम् ॥ नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनैः । विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः । उद्यानसलिलक्रीडा-मधुपानरतोत्सवैः । मन्त्रद्यूतप्रयाणाजिनायकाभ्युदयैरपि । अलङ्कृतम-संक्षिप्तं रसभावनिरन्तरम् | काव्यं कल्पान्तरस्थायि जायते सदलङ्कृति । ऊनमप्यत्र यैः कैश्चित् अङ्गैः काव्यं न दुष्यति ' इति पञ्चमेन । सर्वापूर्वमित्यादि । कृत्स्नेयं वसुन्धरा-अरिन्दमवत् 'संज्ञायां-' इत्यादिना खच्, प्रजासर्गादिकारित्वात् प्रजापतिः वैवस्वतमनुः, तं उपादाय-तं उपक्रम्य सन्धायमानानाम् ; जयषाळिनाम्, शलाभेदष्षळयोः; शलगतौ घञि शालो विशालः, तस्मान्मत्वर्थीय इनिः । [१]जये शाली-समृद्धः जयशाली । तथाग्रेऽपि । येषां नृपाणां सर्वा पूर्वं यथा तथा स्वमासीत् । सर्वे राजानो यस्यां विषये येषां पूर्वे प्रथमभोक्तारो यथा न सम्भवन्ति तथेत्यर्थः । भूमेः प्रथमाधिपतय इत्यर्थः । यद्वा सर्वापूर्वं-ऐहिकामुष्मिकसर्वापूर्वसाधनमभूत् ॥ १ ॥

 येषां स सगरो नाम सागरो येन खानितः ।
 [२]षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन् ॥ २ ॥

 अथ असाधारण्यप्रयोजकधर्मान्तरोपदेशः येषामित्यादि । निर्धारणे षष्ठी। सगरो नामाभूदिति शेषः । कोऽस्य विशेष इत्यतः-सागर इत्यादि । षष्टिरिति तु निपातो दर्शितः । तेन पुत्रसहस्राणीति सामानाधिकरण्यम् ॥२॥

 इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।
 महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ॥ ३ ॥

 इक्ष्वाकूणामिति । तद्राजप्रत्ययस्य बह्वर्थतो लुक् । वंश इति विषयसप्तमी । महदिदमुत्पन्नमाख्यानम् ॥ ३ ॥


  1. जयेन शालन्ते-भासन्त इति जयशालिनः-गो.
  2. षष्टिपुत्र