पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
89
आसीदयोध्यानगरी देशे कोसलनामनि

 तदिदं [१]वर्तयिष्यामि सर्वं निखिलमादितः ।
 धर्मकामार्थसहितं श्रोतव्यमनसूयया ॥ ४ ॥

 तदिदं सर्वं-समग्रमाख्यानं आदितः-आदिमारभ्य निखिलं पूर्वमुत्तरं च, वर्तयिष्यामि-प्रवर्तयिष्यामि ; न तु कृतसमग्रकाव्यस्यैकदेशाप्रवर्तनम् । श्रोतव्यत्वे हेतुगर्भं विशेषणं-धर्मेत्यादि ॥ ४ ॥

 कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
 निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥ ५ ॥

 एवं सप्रयोजनान्तश्रवणोन्मुखान् प्रति श्रावणम्-कोसल इत्यादि । "स्फायः स्फी निष्ठायां" स्फीतः, समृद्ध इत्यर्थः । सरयूतीर इति । तदुपलक्षितप्रदेशविशेष इत्यर्थः ॥ ५ ॥

 अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।
 मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ॥ ६

 तत्रेति । कोसलजनपद इति यावत् ॥ ६ ॥

 आयता दश च द्वे च योजनानि महापुरी ।
 श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा ॥ ७ ॥

 आयता-दीर्घा । सरयूतीरोपश्लेषेणेति शेषः । त्रीणीति | योजनानीति शेषः । विस्तीर्णेति । तिर्यग्विस्तारवतीति यावत् । सुविभक्त-महापथेति । महापथः-बहिर्मार्गः ॥ ७ ॥

 राजमार्गेण महता सुविभक्तेन शोभिता ।
 मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः ॥ ८ ॥


  1. वर्तयिष्यावः-च.