पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
87
कथावतार:

 यतो मयापि मद्विषयकः सुप्रबन्धश्श्रोतव्य एव अतो गायतामिति रामवचःप्रचोदितौ तौ मार्गविधानसम्पदा-मार्गो देशी चेति गानं द्विप्रकारं प्राकृतावलम्बि गानं देशी, संस्कृतावलम्बी तु मार्गः, मार्गाख्यगानमार्गावलम्बनसामग्रया अगायताम् । परिषद्गतः स च रामोऽपि शनैः [१]बुभूषया-प्रागुक्तरीत्या इहामुत्र स्वाभ्युदयेच्छया, आसक्त मनाः-सजेरन्तर्भावितणिः, प्रबन्धश्रवणे आसञ्जितमना बभूव ह । परिषदि स्वप्रशंसार्थकत्वेन महापुरुषत्वात् लज्जया शनैश्शनैः प्रवृत्तिरिति द्योत्यते शनैरिति पदेन । [२]इदं सर्गचतुष्टयं उपोद्धातरूपं काव्यशरीरं (द्वात्रिंशच्छ्लोक एकार्धोनः) ॥ ३१ ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे चतुर्थस्सर्गः

[ इत्युपोद्धातः ]


अथ पञ्चमः सर्गः

[ कथावतारः, अयोध्यावर्णनं च ]

 [३]सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुन्धरा ।
 प्रजापतिमुपादाय नृपाणां [४]जयषाळिनाम् ॥ १ ॥

 एवं उपोद्धाततः प्रस्तावितकाव्यस्य प्रस्तावो वस्तुनिर्देशतः क्रियते–दशरथो नाम अयोध्याधिपतिरभूदिति । प्रसङ्गात् काव्यलक्षणं पुरवर्णनं च क्रियते-'सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् ।


  1. बुभुषया-अनुबुभूषया-श्रोत्रसुखानुभवेच्छ्येत्यर्थः-गो.
  2. ननु आत्मप्रशंसापरमिदं सर्गत्रयं (२-४) कथमृषिः स्वयमेव वक्तुमर्हतीति चेन्न । अन्यापरिज्ञातस्यैतस्य वृत्तान्तस्य प्रेक्षावत्प्रवृत्त्यर्थमादाववश्यं वक्तव्यत्वात् । यद्वा सर्गत्रयमिदं केनचिद्वाल्मीकिशिष्येण रामायणनिर्वृत्त्यनन्तरं निर्माय वैभवप्रकटनाय सङ्गमितम्-गो.
  3. सर्वाऽपूर्वे-सर्वेषामितरेषां राज्ञां अपूर्वे-दुर्लभं यथा भवति तथा आसीत्-गो.
  4. जयशालि-ङ. च.