पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
86
[बालकाण्डः
रामेण सादरं रामायणश्रवणम्

आजानुबाहुत्वादिपार्थिवलंक्षणान्वितौ, इमौ कुशीलवौ मुनी अत्याश्चर्यरूपस्वभावौ प्रबन्धस्य गायकौ, चरितं काव्यप्रबन्धनं च, [१]महानुभावं-सुशब्दार्थालङ्कारललितसन्दर्भत्वादिविशेषवैभवेन तथा सार्वभौमविषयत्वेन महावैभववत्, अतो युष्माकं श्रेयस्करमिदम् । निबोधत-भ्वादिः बुधिः । न केवलं युष्माकम् अपि तु ममापि काव्यनायकस्यापि दिव्यलक्षणलक्षितस्वविषयकप्रबन्धस्य च श्रवणम्, भूतिकरं-इहामुत्राभ्युदयकरम्, प्रचक्षते-वदन्ति वृद्धाः । लोकेऽपि चास्ति प्रसिद्धिः-एतद्विषयिणी एतत्कवेः कविता शब्दतोऽर्थतो ध्वनितो वास्याशून्यत्वं प्रतिपादयति, अतोऽयमचिरात् प्रसिद्धिमेष्यतीति । तथा शाब्दादितो मङ्गलपरत्वे तु परममङ्गलं तस्य तस्येति ॥ ३० ॥

 ततस्तु तौ रामवचःप्रचोदितौ
 अगायतां मार्गविधानसंपदा ।
 स चापि रामः परिषद्गतश्शनैः
 बुभूषयाऽऽसक्तमना बभूव ॥ ३१ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे चतुर्थः सर्गः


  1. रामस्य स्वावेषयकप्रबन्धश्रवणं महानुभावत्वोक्तिश्च न घटते, रामस्य विकत्थनत्व-प्रसङ्गात्-अतः रामायणस्य सीताचरितत्वात् महानुभावत्वं चरितस्योच्यते-पूर्वे च 'सीतायाश्चरितं महत्' इति खलूक्तम् -इति गोविन्दराज । परन्तु 'काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्' इतिपर्यन्तं उद्देश्यवाचकं द्वितीयान्तं, 'पौलस्त्यवधमित्येव' इति च विधेयसमर्पकमिति स्पष्टम् । एवञ्चास्य काव्यस्य सीताचरित्रमात्रं न प्रधानविषय इति युक्तम् । लोकप्रवर्तनाय रामायणस्य प्रशंसनीयत्वात् भरतादिविवक्षया च 'महानुभावं इत्युक्तं स्यात् । अनन्तरश्लोकव्याख्यायां शनैरिति पदव्याख्यानं द्रष्टव्यम् । अन्ततस्तु स्तवप्रियः इति सहस्रनामान्तर्गतनामनिर्वहणं प्रकृते स्मर्तव्यमिति । महानुभावमित्यस्य चरितशब्दार्थकाव्य विशेषणत्वे तु न कस्यापि कोलाहलस्यावकाशः ॥