पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
85
रामस्य पुरतः कुशलवाभ्यां रामायणगानम्

 तौ खचिन्तायतनिस्वनं-स्वीयकाव्यनायकस्य परमकल्याणगुणचिन्ताजनितेनानन्देन आयतौ निस्वनौ यस्मिन्, गेयविषयसौष्ठवस्मृत्या लोकस्य गीतिनादतारत्वं लोकप्रसिद्धम् । न तयोस्तारं गातव्यमितीच्छया तारस्वनत्वमित्यनेन कश्चनातिशयः । अत्यर्थमंगायतामिति योजना ॥२८॥

 ह्लादयन् सर्वगात्राणि मनांसि हृदयानि च ।
 श्रोत्राश्रयसुखं गेयं तद्वभौ जनसंसदि ॥ २९ ॥

 सर्वगात्राणीति । सर्वेषां श्रोतॄणां सर्वाणि गात्राणि । ह्लादयन्-गात्रह्लादो नाम तेषां रोमाञ्चप्रादुर्भावलक्षणः । मनसः आह्लादो नाम निद्रायामिव विस्मृतान्यव्यापारतया तद्गानश्रुतिसुखासक्तिः । हृदयं-'हृद्ययमिति हृदयम्' इत्युपनिषन्निर्वचनात् हार्दाहंभावावच्छिन्नः प्रत्यगात्मा । तस्य ह्लादो नाम भोक्तुर्मे एतद्गानश्रुतिजानन्दभोगोऽस्त्वित्यामनिवेशः । श्रोत्राश्रयसुखमिति बहुव्रीहिः, गेयमन्यपदार्थः । [एकार्धोनत्रिंशत् ] ॥ २९ ॥

 इमौ मुनी पार्थिवलक्षणान्वितौ
  कुशीलवौ चैव महातपस्विनौ ।
 ममापि तद्भूतिकरं प्रचक्षते
  महानुभावं चरितं निबोधत ॥ ३० ॥

 पुनश्चाख्यानस्यान्विष्य श्रोतव्यताप्रयोजनमुपदिशन् आदरात् पुनराख्यानश्रवणे भगवान् रामः प्रचोदयित्वा-तौ प्राग्वत् सञ्चोद्य स्वयमपि श्रोत्रानन्दसुखपरो बभूवेत्युच्यते-इमावित्यादिद्वाभ्याम् । यत्–यस्मान्महातपस्विनौ–जटावल्कलादिसम्बन्धात्, स्वरूपतस्तु