पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
84
[बालकाण्डः
रामायणगानं प्रति श्रीरामस्य कुशलवचोदनां

 परं कवीनामाधारमिति । काव्यलक्षणालङ्कारादिविषये दृष्टान्त-तया प्रदर्शनोपयुक्तत्वात् । हे सर्वगीतेषु कोविदौ कुशीलवौ ! यथाकृतं मुनिना तथैवावधृत्य अविगीतं–अनवद्यं यथा तथा युवाभ्यामिदं आयुष्यादिगुणकं काव्यं गीतमित्येवं प्रशस्यमानौ । तत्र–रथ्यादौ । गायिनौ, 'गस्थकन्' 'प्युट् च' इति गायतेः कर्तरि णुट्, गानं कुर्वाणौ भरताग्रजः-रामः ददर्श ॥ २३ ॥

 स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ।
 पूजयामास पूजा रामः शत्रुनिबर्हणः ॥ २४ ॥
 आसीनः काञ्चने दिव्ये स च सिह्मासने प्रभुः ।
 उपोपविष्टस्सचिवैर्भ्रातृभिश्व समन्वितः ॥ २५ ॥

 सचिवादिभिः उप-समीपे उपविष्टः- व्यापारान्तररहितः ॥ २५॥

 दृष्ट्वा तु रूपसंपन्नौ विनीतौ भ्रातरावुभौ ।
 उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तदा ॥ २६ ॥
 ध्यतामेतदाख्यानमनयोर्देववर्चसोः ।
 विचित्रार्थपदं सम्यक् गायकौ समचोदयत् ॥ २७ ॥

 अनयोरिति । सकाशादिति शेषः । समचोदयदिति । गातुमिति शेषः ॥ २७ ॥

 तौ चापि मधुरं [१]रक्तं [२] स्वचिन्तायतनिस्वनम् ।
 तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ॥ २८ ॥


  1. व्यक्तं स्वञ्चिता-ङ. रक्तं स्वचित्ता-च.
  2. स्वञ्चितः सुतरां पूजितः आयतः दीर्घः निस्स्वनः-आलापो यस्मिन्- गो.
    स्वचित्तायतनिस्स्वनं, स्वस्य श्रोतृचित्तस्य चानुरूप: आयतः - तारः निस्स्वनः-नादः यत्र स तथा- ति.