पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१५०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
83
महर्षिभिः कुशलवप्रशंसा

 [१]प्रविश्य, तत्र ऋष्यादिसमीपमिति शेषः । तारं-अत्युच्चैः सम्पन्नं यथा तथा अगायतामिति पूर्वेणान्वयः ॥ १८ ॥

 एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः ।
 संरक्ततरमत्यर्थं मधुरं तावगायताम् ॥ १९ ॥

 एवमिति । अहो गीतस्येत्याद्युक्तरीत्येति यावत् ॥ १९ ॥

 प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ।
 [२]प्रसन्नो वल्कलं कश्चित् ददौ ताभ्यां महायशाः ॥ २० ॥

 संस्थित इति । तत्र समाज इति शेषः । ॥ २० ॥

 आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम् ।
 परं कवीनामाधारं समाप्तं च यथाक्रमम् ॥ २१ ॥
 अविगीतमिदं गीतं सर्वगीतिषु कोविदौ ।
 आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ॥ २२ ॥
 प्रशस्यमानौ सर्वत्र कदाच्चित्तत्र [३]गायनौ ।
 रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ॥ २३ ॥


  1. भावं सुष्ठ प्रविश्य–अवगाह्य-गो.
  2. एतदनन्तरं-अन्यः कृष्णाजिनमदात् यशसूत्रं तथाऽपरः । कश्चित्कमण्डलु प्रादात् मौजीमन्यो महामुनिः ॥ बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः । ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ॥ काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः । जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ॥ यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः । औदुम्बरीं बृसीमन्यः खरित केचित्तदाऽवदन् । आयुष्यमपरे प्राहुः मुदा तत्र महर्षयः ॥ ददुश्चैवं वरान् सर्वे पुनवरसत्यवादिनः ॥ इत्यधिकं-ङ.
  3. गायकौ-ङ.