पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
82
[बालकाण्ड:
महर्षिभिः कुशलवप्रशंसा

 ऋषीणां च द्विजातीनां साधूनां च समागमे ।
 यथोपदेशं तत्वज्ञौ जगतुस्सुसमाहितौ ॥ १३ ॥
 महात्मानौ महाभागौ लक्ष्यलक्षणलक्षितौ ।

 तौ धर्म्यं-धर्मादनपेतं । वाचोविधेयमिति । विनापि पुस्तकं पाठयोग्यमिति यावत् । जगतुरिति । गानं कृतवन्ताविति यावत् । महाभागौ । पूज्याविति यावत् । लक्ष्येति । सामुद्रिकशास्त्रविद्भिः यल्लक्ष्यं-परीक्ष्यं लक्षणं-सुलक्षणमस्ति तेन लक्षितौ तथा ॥ १३ ॥

 तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ।
 मध्येसभं समीपस्थौ इदं काव्यमगायताम् ॥ १४ ॥

 भावितः-पूतः ॥ १४ ॥

 तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ।
 साधु साध्विति तावूचुः परं विस्मयमागताः ॥ १५ ॥

 बाष्पः-आनन्दबाष्पः । साधुसाध्विति योजना ॥ १५ ॥

 ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ।
 प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ॥ १६ ॥
 अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ।
 चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ॥ १७ ॥

 प्रशस्तव्याविति । इडभावनलोपौ छान्दसौ । चिरनिर्वृत्तमप्येतदिति। आभ्यां प्रतिपाद्यमानं रावणवधान्तरामचरितमिति यावत् ॥ १७ ॥

 प्रविश्य तावुभौ सुष्टु तथाभावमगायताम् ।
 सहितौ मधुरं,[१] तारं संपन्नं स्वरसंपदा ॥ १८ ॥


  1. रक्तं-ङ. च.