काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ ७ ॥
सीताचरितप्रतिपादकमपि काव्यं कृत्स्नमपि पौलस्त्यवधमित्येव चकार । तथा च शिशुपालवधे माघकाव्यं इतिवत् पौलस्त्यवधे रामायणं इत्येव काव्यस्य विशिष्य प्रतिपद्यांशस्सर्गान्तेषु वक्तव्य इत्यावोदितम् । इदमेव चोक्तं प्रागपि 'दशशिरसश्च वधं निशामयध्वम् ।' इति ॥ ७ ॥
पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिस्सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ ८ ॥
रसैः श्रृङ्गारकरुणहास्यरौद्र भयानकैः ।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥ ९ ॥
इति । तन्त्रीलयसमन्वितमिति । 'पादबद्धोक्षरसमस्तन्त्रीलयसमन्वितः 'इति द्वितीयसर्गे व्याकृतः । वीरादीत्यादिशब्देन बीभत्साद्भुतशान्तिरस-संग्रहः ॥ ८ ॥ ९ ॥
तौ तु गान्धर्वतत्वज्ञौ स्थानमूर्छनकोविदौ ।
भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥
रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात्तथाऽपरौ ॥ ११ ॥
तौ गान्धर्वस्य-समग्रनाट्यस्य तत्त्वज्ञौ तथा, "पदस्थस्वर-सङ्घातस्ताळेन सुमितस्तथा । प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते इति", नृत्तपदविक्रमानुरोधितया तिष्ठतीति पदस्थस्वरः । निषादादिमृदङ्गताळ-