पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

 एवंभूतपौलस्त्यवध काव्यस्य शिष्यमुखात् प्रवृत्त्यपदेशः-पाठ्य इत्यादि । आसर्गसमाप्ति पठेर्मात्रे ण्यः कृतः । पाठ्ये-सामान्यत-श्चिताह्लादार्थे पठने, गेये 'भव्यगेय' इति निपातः, प्राकप्रसङ्गोक्ततन्त्रीनाडी समुत्थश्रुति-भेदोपेततया यत् गानं तत्रोभयत्र च मधुरं श्रोत्रसुखोत्पादनाद्यनुकूलम् । षड्जादयस्सप्तस्वरास्सामान्यतो जातिसंज्ञाः । ताभिर्जातिभिस्सप्तभिर्बद्धम् । गानसमये गातॄणां सप्तस्वरविशिष्टगानानुरोधीति यावत् । अत्र जातिलक्षणे शाण्डिल्य: "सर्वगीतसमाधानो जातिरित्यभिधीयते" इति । गीतं गानं स समाधीयते येषु सप्तस्वरेषु स सर्वोपि निषादादिसप्तस्वरो जातिरित्यभिधीयते इत्यर्थः । अयमेवार्थस्तेनोत्तरश्लोकेन प्रतिपादितः- "षाड्जी चैवाथ नैषादी धैवती पञ्चमी तथा माध्यमी चैव गान्धारी साप्तमी त्वार्षभी मता ॥" व्यापारानुरोधितया स्वराणां प्रयोगैकाग्र्यं-अवधानम् । स्थानं च मूर्च्छना च स्थानमुर्च्छने, तत्तत्त्वपरिज्ञाने कोविदौ-समर्थावित्यर्थः । तथाऽऽह स्थानादिस्वरूपं शाण्डिल्यः– "यदूर्ध्वं हृदयग्रन्थेः कपोलफलकादयः । प्राणसञ्चरणं स्थानं स्थानमित्यभिधीयते" इति । तथा-'यत्रैव स्युः स्वराः पूर्णा मूर्च्छना सेत्युदाहृता' । यत्रैवेति । गीतिविशेष इत्यर्थः । स्वराः पूर्णा इति । एकेन गानकर्त्रा षड्जादिस्वरानामबिलम्बप्रयोजना पूर्तिः-पूर्णता । रूपिणौ-प्रशंसायामिनिः । प्रशस्तरूपवन्तौ । बिम्बात्-सूर्यादेः उद्धृतौ-उत्पन्नौ, बिम्बौ-प्रतिबिम्बौ ॥ ११ ॥

 तौ राजपुत्रौ कार्त्स्येन धर्म्यमाख्यानमुत्तमम् ।
 वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥