पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः ]
79
रामायणप्रवचनाय कुशलवपरिग्रहणम्

 महाप्राज्ञ इति । प्राज्ञः-'प्रज्ञाश्रद्धा' इत्यादिना णः । तेन महच्छब्दस्य समासः कर्मधारयः । सर्भविष्यमिति । 'लटः शतृ-इति शत्रभावश्छान्दसः । भविष्यदश्वमेघादिचरिताख्यानोपेतं । अत एव सहोत्तरं, उत्तरकाव्य एव तत्प्रतिपादनात् तेनैकग्रन्थ्यम् । तं महाकाव्यमपि सत्यसङ्कल्पत्वात् कृत्वा, प्रभुः-प्रवर्तनादिशक्तिमान् ऋषिः, को न्वेतत्काव्यं प्रयुञ्जीयात् पठित्वाऽऽस्थानीषु प्रचारयेदिति चिन्तयामास । प्रोपाभ्यां इत्यात्मनेपदाभावः परस्मैपदे यासुटि ईडागमश्च छान्दसः । परस्मैपदे सीयुडार्ष इति कश्चित् । नैतत्सीयुट्, एवं रूपयोगात् ॥ ३ ॥

 तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
 अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥

 तस्य भावितः–पूजितः आत्मा यस्य स तथा । अगृह्णीतामिति । अजादावपि 'ईहल्यघोः' इतीत्वं छान्दसम् । मुनिवेषाविति । राजकुमारयोरपि आश्रमस्थित्युपाधिवशादिति शेषः । कुशश्च लवश्च कुशीलवौ । सामासिकः कुशीभाव आर्षः ॥ ४ ॥

 कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
 भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥
 स तु मेधाविनौ दृष्ट्वा वेदे तु परिनिष्ठितौ ।
 वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥

 स तु मेघाविनौ 'धीर्धारणावती मेधा' 'अस्मायामेधा' इति विनिः । उपबृह्मणं-उपोद्बलकं, वेदप्रतिपाद्यधर्माणामिह सुबोधतया प्रतिपादनात् । अत्र वेदात् सामान्यावगतार्थस्य परिज्ञाने बुद्धिसौकर्यमिति उपोद्बलकत्वं काव्यस्य ॥ ६ ॥