पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
78
[बालकाण्डः
वाल्मीकेः स्वकृतरामायणप्रवचनाधिकारिचिन्ता

षट्काण्डसर्गविषयिणी महासङ्ख्यैव पञ्चशती साक्षादुक्ता । षट्त्रिंशद्रूपिणी अल्पसङ्ख्या तु मुनिना उपेक्षिता । एकसर्गस्य द्विधा विच्छेदे द्वयोस्सर्गयोरेकतया मेळनेऽपि न कथञ्चन भारोऽस्ति । ग्रन्थसङ्ख्याया अपरिक्षयात् कथासन्दर्भस्याविच्छेदाच्च । इदमेवोपलक्षणं उत्तर-काव्यस्य सर्गसङ्ख्यानुपदेशेन द्योत्यते । यच्च श्लोकानां ससुरसङ्ख्याभ्यधिकत्वं पुरातनैर्दृष्टं तत्रापि अक्षरविषयकाणां सहस्राणां महासङ्ख्यानामेव परिच्छेदो दुःखतः कृतः । तु यथा द्योतिता तथान्यदप्यल्पं श्लोकजातमस्ति, तथा सर्गसङ्ख्यायामनुक्तसङ्ख्यासंग्रहाय तथाशब्दस्तत्रापि प्रयुक्तः । वयंतु श्लोकान् प्रतिसर्गं सङ्गणय्य सङ्कलय्य पश्चान्महासङ्ख्यां परिच्छेत्स्यामः । वस्तुतस्तु यथा चरणव्यूहे ऋग्वेदमण्डलवर्गपदसङ्ख्योपदिष्टान्यूनाधिकरहिता अनुभूयते, एवमेव च ऋषीणां सङ्ख्योपदेशकत्वे कापि सङ्ख्या न न्यूनाधिका स्यात् । न ससुरसङ्ख्याग्रन्थः प्रक्षिप्त इति शक्यवादः, साहसमात्रत्वात् । षट्त्रिंशत्सर्गसङ्ख्या च भ्रान्तिकृतेति दुर्वचा । अपि च ग्रन्थसङ्ख्यामुत्तरस्य वदन् तत्सर्गसङ्ख्यां च अवक्ष्यत् । [१]अतः प्राचीनेन केनचित् सर्वश्लोकसङ्ख्यागणकेन च स्मार्तश्रोत्रियश्लोकवत् स्वमतिसौकर्यसिद्धये स्थूलदृशा सङ्ख्यापरि ज्ञानाय कृतोऽयं श्लोको ग्रन्थसमीपे च लिखितः । तत्तु मूलग्रन्थान्तर्गतमिति भ्रान्त्या स्वेषामपि सामान्यतस्सङ्ख्यापरिज्ञानमस्त्विति प्राचीनैरपि ग्रन्थान्तः परिक्षिप्तः । सर्वथाऽयं श्लोकः प्रतिक्षिप्त एव । अस्य व्याख्याने प्रत्यक्षस्वप्नदर्शननिमित्तवैषम्यतश्च वयं प्रक्षिप्तत्वं निरचैषिष्म ॥ २ ॥

 कृत्वापि तन्महाप्रज्ञः सभविष्यं सहोत्तरम् ।
 चिन्तयामास को न्वेषः प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥


  1. कतककृतस्तु प्रक्षिप्तोऽयं श्लोको न त्वार्ष इत्याहुः-ति.