पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
77
रामायणग्रन्थसंख्यादिकथनम्

 चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
 तथा सर्गशतं पञ्च षट् काण्डानि तथोत्तरम् ॥ २ ॥

 अथ श्लोकसङ्ख्यापरिच्छेदं प्रक्षेपादिदोषपरिहाराय, सर्गसङ्ख्यापरिच्छेदं च अस्थाने सर्गविच्छेदादितः सर्गन्यूनाधिक्यपरिहाराय च कुरुते-चतुर्विंशदित्यादि । इयं श्लोकानां चतुर्विंशत्सहस्रसङ्ख्या-'तपस्स्वाध्याय' इत्यारभ्य 'तद्ब्रह्माप्यन्वमन्यत' इत्युत्तररामायणसमाप्ति- ग्रन्थस्य श्लोकराशेरेव, न तु षट्काण्डीयश्लोकानाम् । अत्र कः काण्डः कियच्छलोकः ? उत्तरश्च कियच्छलोकः ? इत्यत्र प्राचीनं सोत्तरकाण्डश्लोकसङ्ख्यापरं श्लोकं लिखामः-

 "ग्रन्थास्स्युर्बालकाण्डे निजखुरगणिता मान्यभावा द्वितीये
 रङ्गे सा श्रीस्तृतीये नरतरुगणिता स्युश्चतुर्थे च काण्डे ।
 काण्डे स्युः पञ्चमेऽपि स्तननगगणिता नाळधामा च षष्ठे
 भोगी रागी परस्मिन् ससुरवर इति स्यात्समस्ता च सङ्ख्या ॥"

परस्मिन्निति-उत्तरकाण्ड इति यावत् । ससुरेत्येवं सङ्ख्याभ्यधिकः सप्तसप्तत्युत्तरद्विशतसङ्ख्याभ्याधिकः उक्तसङ्ख्याभ्याधिक्यक्रुद्वात्रिंशदक्षरप्रमाणेन लोकानां परिगणने त्रिष्टुप् जगत्यादिछन्दोभेदवशात् भवतीत्याहुः । तथा सर्गशतं पञ्चेति । पर्वतीत्यादिना बहुसङ्ख्येयार्थ- त्वेऽपि शतमिति निपातः । पञ्चसङ्ख्यासङ्ख्येयं सर्गशतम् । तथा इयं षट्काण्डीयसर्गसङ्ख्या । कः काण्डः, कियत्सर्गः इत्यत्रापि तत्सङ्ख्यापरं प्राचीनं श्लोकं पठामः-

 "काण्डे किलाद्ये संस्थानं द्वितीये धान्यकानि तु ।
 मासं तृतीये सन्तस्तु चतुर्थे पञ्चमे जितम् ।
 षष्ठं यागायनं रागायनं वातायकोऽन्तिमे ॥"

इति । अत्रापि षट्त्रिंशत्सगाधिक्यं षट्काण्ड्याः प्रतीयते । अत्र