पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
76
[बालकाण्डः
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम् ।
 स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम् ॥ ३८ ॥

 अभ्युदयः-उत्सवः ॥ ३८ ॥

 अनागतं च यत्किश्चिद्रामस्य वसुधातले ।
 [१] [२]तच्चकारोत्तमे काव्ये वाल्मीकिर्भगवानृषिः ॥ ३९ ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे तृतीयः सर्गः

 अनागतं-ब्राह्मणपुत्रोजीवनाश्वमेघयागादि । उत्तमे काव्य इति । समग्रकाव्यलक्षणलक्षितत्वात् काव्योत्तमे, पूर्वोत्तरविभागवतीति शेषः ॥ ३९ ॥[एकोनचत्वारिंशत् ]

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे तृतीयः सर्गः

अथ चतुर्थः सर्गः

 प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
 चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १ ॥

 अथैवं कृतस्य काव्यस्य विना प्रचारं प्रयोजनाभावात् तत्रापिरा राजसत्काररहिता विद्या नातिप्रकाशते इति न्यायेनाधिराजास्थानीसम्प्राप्तिं विना पूर्वं प्रचारासम्भवात् चतुर्थेन काव्यस्य सार्वभौमास्थानीसम्प्राप्तिः तच्छिष्यद्वारिका प्रतिपाद्यते-प्राप्तेत्यादि । प्राप्तराज्यस्येति बहुव्रीहिः । रामस्य चरितमिति । तद्विषयककाव्यमिति यावत् ॥ १ ॥


  1. उत्तरे काव्ये-उत्तरकाण्डे-गो.
  2. तच्चकारोत्तरे-ङ. च.