मणिप्रदानं सीताया वृक्षभङ्गं तथैव च ।
राक्षसीविद्रवं चैव किङ्कराणां निबर्हणम् ॥ ३२ ॥
मणिप्रदानमिति । रामं प्रतीति शेषः ॥ ३२ ॥
ग्रहणं वायुसनोच लङ्कादाहाभितर्जनम् ।
प्रतिप्लवनमेवाथ मधुनिर्यातनं तथा ॥ ३३ ॥
लङ्कादाहश्च अभितर्जनञ्च तथा । तत्र राक्षसानामिति शेषः । प्रतिप्लवनं पुनः सागरतरणम् । मधूनां क्षौद्राणाम् ॥ ३३ ॥
राघवाश्वासनं चैव मणिनिर्यातनं तथा ।
सङ्गमं च समुद्रेण नलसेतोच बन्धनम् ॥ ३४ ॥
निर्यातनं-दानम् । नलबद्धोः यस्सेतुः स नलसेतुः ॥ ३४ ॥
प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम् ।
विभीषणेन संसर्गं वधोपायनिवेदनम् ॥ ३५ ॥
प्रतारं-भावे घञ् । विभीषणसंसर्गः सेतुबन्धनात्पूर्वम् ॥ ३५ ॥
कुम्भकर्णस्य निधनं मेघनादनिबर्हणम् ।
रावणस्य विनाशं च सीतावाप्तिमरेः पुरे ॥ ३६॥
विभीषणाभिषेकं च पुष्पकस्य च दर्शनम् ।
[१]अरेः पुरे सीतावाप्तिं विभीषणाभिषेकं चेत्यन्वयः ॥ ३६ ॥
अयोध्यायाश्च गमनं भरद्वाजसमागमम् ।
प्रेषणं वायुपुत्रस्य भरतेन समागमम् ॥ ३७ ।।
- ↑ अरे: पुर इयेत्तत् विभीषणाभिषेकं च इत्यत्राप्यन्वेति ।