पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
71
[बालकाण्डः
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 पृथिव्याश्च निवेदनमिति । सीतादर्शनार्थमन्वेषणीयपृथिवीदेशविशेषोपदेशः; सुग्रीवकृत इति शेषः ॥ २५ ॥

 अङ्गुलीयकदानं च ॠक्षस्य बिलदर्शनम् ।
 प्रायोपवेशनं चैव संपातेश्चापि दर्शनम् ॥ २६ ॥

 बिलदर्शनं हनूमदादेरिति शेषः । तथाग्रेऽपि ॥ २६ ॥

 पर्वतारोहणं चैव सागरस्यापि लङ्घनम् ।
 समुद्रवचनाच्चैव मैनाकस्य च दर्शनम् ॥ २७ ॥

 समुद्रवनादिति । विश्रमार्थं प्रेषितस्येति शेषः ॥ २७ ॥

 [१]देवताभिप्रसादश्च छायाग्राहस्य दर्शनम् ।
 सिलिकायाश्च निधनं लङ्कामलयदर्शनम् ॥ २८ ॥

 देवतानामभिप्रसादो देवताभिप्रसादनम् । लङ्कामलयो नाम-लङ्काद्वीपगतः कश्चिगिरिः ॥ २८ ॥

 [२]रात्रौ लङ्काप्रवेशं च एकस्य च विचिन्तनम् ।
 आपानभूमिगमनमवरोधस्य दर्शनम् ॥ २९ ॥

 एकस्य-असहायस्य । आपानं-पानभूमिः तद्गमनम् तथा । रावणस्येति शेषः । तथाग्रेऽपि ॥ २९ ॥

 दर्शनं रावणस्यापि पुष्पकस्य च दर्शनम् ।
 अशोकवनिकायानं सीतायाश्चापि दर्शनम् ॥ ३० ॥
 अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम् ।
 राक्षसीतर्जनं चैव त्रिजटास्वमदर्शनम् ॥ ३१ ॥

 अभिज्ञायतेऽनेनेत्यभिज्ञानं-अङ्गुळीयकम् ॥ ३१ ॥


  1. राक्षसीतर्जनं चैव-ङ. च.
  2. सुरसापरीक्षणानन्तरं देवैः कृतोऽनुग्रहो वा । क्रमस्तु न विवक्षितः ।