पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
73
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 वधं खरत्रिशिरसोरुत्थानं रावणस्य च ।
 मारीचस्य वधं चैव वैदेह्या हरणं तथा ॥ २० ॥

 खरत्रिशिरसोरिति दूषणादेरप्युपलक्षकः । उत्थानं-सीतापहारा-र्थोद्योगः ॥ २० ॥

 राघवस्य विलापं च गृध्रराजनिबर्हणम् ।
 कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम् ॥ २१ ॥
 शबरीदर्शनं चैव [१]फलमूलाशनं तथा ।
 प्रलापं चैव पम्पायां [२]हनूमदर्शनं तथा ॥ २२ ॥
 ऋश्यमूकस्य गमनं सुग्रीवेण समागमम् ।
 प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम् ॥ २३ ॥

 प्रत्ययोत्पादनं-सालादिभेदेन सुग्रीवस्य विश्वासजननम् । सख्यमिति । रामसुग्रीवयोरिति शेषः । विग्रहमिति । युद्धं, वैरानुकथनमिति यावत् ॥ २३ ॥

 वालिप्रमथनं चैव सुग्रीवप्रतिपादनम् ।
 ताराविलापं समयं [३]वर्षरात्रिनिवासनम् ॥ २४ ॥

 प्रतिपादनमिति । राज्ये स्थापनमिति यावत् । शरदिं कार्यार्थोयोगः कार्य इति रामसुग्रीवकृतसङ्केतः- समयः । वर्षरात्रिनिवासनमिति । विरहदुःखपीडया रामस्येति शेषः ॥ २४ ॥

 [४]कोपं राघवसिह्मस्य बलानामुपसंग्रहम् ।
 दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम् ॥ २५ ॥


  1. हनुमद्दर्शनं-ड.
  2. राघवस्य महात्मनः-ङ.
  3. वर्षरात्र-ङ.
  4. कोपः सुग्रीवविषयकः.