पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
72
[बालकाण्डः
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 वास्तुकर्म-चित्रकूटे पर्णशालानिर्माणम् । तत्पूर्वकस्तत्र निवेशः। तथा प्रसादनं च रामस्येति । भरतेनेति शेष ॥ १६ ॥

 पादुकाग्र्याभिषेकं च नन्दिग्रामनिवासनम् ।
 दण्डकारण्यगमनं विराधस्य वधं तथा ॥ १७ ॥

 पादुकयोरग्रघसिद्धिकः-स्ववत्पूज्यतासिद्धिकः-अभिषेकः- [१]स्वपादक्रमणरूपिणी अभिषेकभावना । तथा-नन्दिग्रामे निवासनमिति । भरतस्येति शेषः । स्वार्थे णिः । तथाऽग्रेऽपि ॥ १७ ॥

 दर्शनं शरभङ्गस्य सुतीक्ष्णेन समागमम् ।
 [२] अनसूया[३] समस्यामप्यङ्गरागस्य चार्पणम् ॥ १८ ॥

 अनसूयासमस्यां-अनसूयया अत्रिपत्न्या समस्या-सङ्गमः । सीताया विशिष्येति शेषः । 'परिचर्या परिसर्यामृगयाटाट्यानामुपसंख्यानम्' इत्यादिशब्दादस्यतेः 'स्त्रियाम्' इति यक्प्रत्ययनिपातः ॥१८॥

 [४]अगस्त्यवचनं चैव जटायोरभिसङ्गमम् ।
 शूर्पणख्याश्च संवादं विरूपकरणं तथा ॥ १९ ॥

 अगस्त्यवचनमायुधदानादिविषयम् ॥ १९ ॥


  1. पादुकाग्रथाभिषेकं रामकर्तृकमिति भावेनैवं व्याख्यातं । एवं सति नन्दिग्रामनिवासनमित्यत्रापि रामकर्तृको भरतस्य नन्दिग्रामनिवासादेशो विवक्षित इति व्याख्येयं अवैरूप्याय ॥ परंतु 'तवागमनमाकाङ्क्षन् वसन्वै नगराद्वहिः' (अयो. 112-24) इति भरतप्रार्थनां खलु रामोऽनुमेने ॥ वस्तुतस्तु पादुकाप्रथयोः-पादुका श्रेष्ठयोः भरतकृतमभिषेकं-इत्यर्थः स्वरसः ॥
  2. यद्यपि-इदं विराधवधात्पूर्वमेव अथापि नात्र कमो विवक्षितः ।
  3. सहास्या-ङ
  4. दर्शनं चाप्यगस्त्यस्य धनुषो ग्रहणं तथा । अनन्तरं पञ्चवट्याश्च गमनं शूर्पणख्याश्च दर्शनम् ॥ इदमर्धं कुत्रचिदधिकं दृश्यते ॥-ङ.