पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
71
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

 नाना चित्राः कथाश्चान्या विश्वामित्रसमागमे ।
 जानक्याश्च विवाहं च धनुषश्च विभेदनम् ॥ ११ ॥

 विश्वामित्रसमागमे नानाचित्रकथाः, लौकिक्यः । धनुर्भेदजानकीविवाहयोः क्रमेणान्वयो द्रष्टव्यः । तथापि क्वचित् । जानक्याश्चेति चकारादूर्मिळादेर्विवाहः ॥ ११ ॥

 रामरामविवादं च गुणान् दाशरथेस्तथा ।

 रामेण-भार्गवेण रामस्य विवादः । तथा गुणानिति भार्गवेणोप-दिश्यमानपरमपुरुषत्वादिगुणान् अयोध्याकाण्डादौ वक्ष्यमाणान् राज्याभिषेकार्हगुणांश्च ॥

 तथाऽभिषेकं रामस्य कैकेय्या दुष्टभावताम् ॥ १२ ॥
 व्याघातं चाभिषेकस्य रामस्य च विवासनम् ।

 व्याघातो विघ्नः ॥ १२ ॥

 राज्ञः [१]शोकविलापं च परलोकस्य चाश्रयम् ॥ १३ ॥
 [२]प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम् ।

 प्रकृतीनां विसर्जनम् । विवासकाले स्वानुयायिपौराणां प्रतिनिवर्तनम् ॥ १३ ॥

 निषादाधिपसंवाद सूतोपावर्तनं तथा ॥ १४ ॥
 गङ्गायाश्चापि सन्तारं भरद्वाजस्य दर्शनम् ।
 भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम् ॥ १५ ॥
 वास्तुकर्म [३]निवेशं च भरतागमनं तथा ।
 प्रसादनं च रामस्य पितुश्च सलिलक्रियाम् ॥ १६ ॥


  1. शोकं विलापं-ङ.
  2. प्रकृतेस्सामवादं च-ङ.
  3. विवेशं-ङ.