पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
70
[बालकाण्डः
योगबलात् वाल्मीकिसाक्षात्कृतार्थानुवादः

विशेषोपयुक्तैः काव्यस्य मनोहरत्वम् । एवमधिकमसङ्गतमेव स्वकमिथ्यापण्डित्यप्रकटनाय वृथा ग्रन्थगौरवाय च ब्रूते । तथा प्रकृतिप्रत्य- यविवेचनाबलादर्थविशेषसिद्धिस्थलेपि निस्सन्देहप्रकृतिप्रत्ययस्थलेपि व्याकरणं लिखति । पदार्थसन्देहरहितस्थलेपि निघण्टून् लिखति । मिथ्यापाण्डित्यप्रकटनायै (न एव)व, प्रकटयतु तत्प्रीतिमद्भयः ॥ ८ ॥

 स यथा कथितं पूर्वं नारदेन महात्मना ।
 रघुवंशस्य चरितं चकार भगवान्मुनिः ॥ ९ ॥

 स इति । रघुवंशस्येति बहुव्रीहिः । रामस्येति यावत् । चरितं-तद्विषयककाव्यं इत्यर्थः ॥ ९ ॥

 जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम् ।
 लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम् ॥ १० ॥

 अथ योगतस्स्वोपदृष्टो नारदश्रुतादभ्यधिको यो विशेषस्तदनुक्रमः क्रियते सामान्यतः काव्यप्रतिपाद्यार्थपरिज्ञानाय-जन्मेति । [१]सुमहत् वीर्यं यस्मिन् जन्मनि तत्तथा । पुत्रकामेष्टिप्राजापत्योपनीत-भगवद्ब्रह्मतेजोवशवीर्यरूपवीर्यमूलकं यद्रामस्य जन्मावतरणं योगदृष्टं तच्चकारोत्तमे काव्ये इति सर्गान्तार्धेन सम्बन्धः । तथा तदन्तप्रतिपाद्यं सर्वं । तच्चकारेति-तत्प्रतिपादनं चात्र चकारेत्यर्थः । सर्वानुकूलतां सर्वप्राणिनामिहामुत्रार्थानुक्कूलमनोवाक्कायव्यापरताम् । प्रत्येकं मामको मामक इति अभिस्नेहास्पदताम् । अत्र हेतुः-क्षान्त्यादित्रयम् । शक्यप्रतिक्रियापकारेष्वपि तदपकारोपेक्षा-क्षान्तिः । भृत्येष्वपि परुषवागादिराहित्यं सौम्यता । सत्यशीलतां-सत्यवचनप्रधानसद्वृत्तताम् । 'शीलं स्वभावे सद्वृत्ते' ॥ १० ॥


  1. 'जन्मनः सुमहत्वं दशरथमहातपोबललभ्यत्वं, विष्णोरवतारत्वं च । वीर्यं ताटकाताटकेयादिहननक्षमं बलम्-गो.