पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
69
वाल्मीकेः सर्वरामवृत्तान्तसाक्षात्कारः

 तत्सर्वं तत्वतो दृष्ट्वा धर्मेण स महामतिः ।
 अभिरामस्य रामस्य तत्सर्वं कर्तुमुद्यतः ॥ ७ ॥

 एवं चिकीर्षितकृतिकरणसमग्रसामग्रीकत्वात्तत्र प्रवर्तत इत्युच्यते-तत्सर्वं कर्तुमिति । तत्सर्वं विषयीकृत्य काव्यं कर्तुमित्यर्थः ॥ ७ ॥

 कामार्थगुणसंयुक्तं धर्मार्थगुणविस्तरं ।
 समुद्रमिव रत्नाढ्यं सर्वश्रुतिमनोहरम् ॥ ८ ॥

 न केवलं रामचरितं, अपि तु कामार्थः-कामपुरुषार्थप्रयोजनो यो गुणो वर्णनीयधर्मः शृङ्गारलक्षणः, तेन संयुक्तम् । एतेन काव्यलक्षणयुक्तत्वं समर्थितम् । तथा धर्मार्थः धर्मपुरुषार्थसिद्धिप्रयोजनो यो गुणो वर्णनीयधर्म: तस्य विस्तरेण वर्णनोपेतं, बहुव्रीहिः । अतएव रत्नाढ्यं समुद्रमिव, धर्मप्रयोजनवर्णनान्येवेह रत्नानि । तदुपगतेत्याद्यक्तलक्षणकत्वेन सर्वेषां श्रुतिमनोहरम् । [१]कश्चित्तु सर्वाभिप्पड्जातिसप्तस्वरसम्बन्धिनीभिः कान्ताभिः द्वाविंशतिश्रुतिभिः मनोहरम् । अत्र शाण्डिल्यः-'सम्प्रयुक्तो विधानेन तथा नाडीसमुद्भवः । सुखहेतु-र्ध्वनिर्यस्सः श्रुतिरित्यभिधीयते ॥ कान्ता प्रभावती सिद्धा सुप्रभा चैव षड्जगाः । उम्रा शिखा च दीप्ता च स्युरेता ऋषभानुगाः ॥ गान्धारानुगते द्वे तु नीह्नादिह्लादिनीति च । क्षान्तिस्सर्वसहा धीरा विभूतिर्मध्यमानुगाः ॥ मालिनी चपला लोला सर्वरत्नप्रभावती । इमाश्चतस्रः श्रुतयः पञ्चमानुगताः स्मृताः ॥ विकल्पिनी च शान्ता च हृदयोन्मालिनी तथा । एतास्तु तिस्रः श्रुतयो धैवतानुगमा मताः ॥ विस्तारिणी प्रसन्ना (पञ्चा) च निषादानुगते उभे ॥' इतीत्यादि तत्रैव सुस्पष्टम् । तन्त्रीनाडीसमुत्पन्ना(त्थाना)दखिलधर्मैश्श्रुतितद्भेदैर्गति-


  1. रामानुजः.