पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
[बालकाण्डः
योगेन रामचरितसाक्षात्कारः

 अन्विष्टकार्यसिद्धिरुच्यते-

 रामलक्ष्मणसीताभी राज्ञा दशरथेन च ।
 सभार्येण सराष्ट्रेण यत्प्राप्तं तत्र तत्त्वतः ॥ ३ ॥
 हसितं भाषितं चैव गतिर्यावच्च चेष्टितम् ।
 तत्सर्वं धर्मवीर्येण यथावत्संप्रपश्यति ॥ ४ ॥

 भार्याः-राजभार्याः कौसल्याद्याः । रामादिसहितेन दशरथेन यद्वृत्तं-राज्यपरिपालनादिरूपम् । प्राप्तं प्राप्तानुष्ठानम् । अन्ततो यच्च हसितादिकमपि तत्सर्वम्, धर्मवीर्येण-भगवद्योगबलेन, तत्र-समाधौ, तत्वतः पश्यति स्म ॥ ३-४ ॥

 स्त्रीतृतीयेन च तथा यत्प्राप्तं चरता वने ।
 सत्यसन्धेन रामेण तत्सर्वं चान्ववैक्षत ॥ ५ ॥

 न केवलमेतावत् । अपि तु [१]सलक्ष्मणस्य यस्य रामस्य स्त्री-सीता तृतीया सोऽसौ स्त्रीतृतीयः ॥ ५ ॥

 ततः पश्यति धर्मात्मा तत्सर्वं योगमास्थितः ।
 पुरा यत्तत्र निर्वृत्तं पाणावामलकं यथा ॥ ६ ॥

 समाघिदर्शनस्य च [२]सन्ध्यादर्शनवत् द्राक् निमेषान्निवर्तनप्रसङ्गात् अकार्यकरतेत्याशङ्क्य भगवद्विशेषानुग्रहमूलत्वान्नैवमित्युच्यते-तत इति । सकलकालदेशसदाव्यापिभगवत्तादात्म्ययोगो योगस्सर्ववेदार्थसिद्धः । तत्र-योगे, पुरा-निजकाव्यकृतिकालात्पुरा यद्वृत्तं रामादिविषयकं यच्चागामि वर्तमानं च तत्सर्वं करतलामलकवत् सुव्यक्तं सुदृढानुभवं च पश्यति स्म ॥ ६ ॥


  1. लक्ष्मणो द्वितीयः, सीता तृतीयेति यावत् ।
  2. सन्ध्या स्वप्नः.