पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१३३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
66
[बालकाण्डः
'तदुपगत' इति श्लोकव्याख्या

 एवं काव्यं निर्माय विद्वांसोऽभिमुखीक्रियन्ते-तदुपगतेत्यादि । समासो द्वन्द्वादिः । सन्धिरेकादेशतुगागमादिजः । योगः-विभक्तार्थयोः प्रकृतिप्रत्यययोः । उपगताः-यथाव्याकरणमर्यादं समासादयो यस्मिन् पादे तत्तथा । तस्मान्मत्वर्थीयोऽच् । उपगतसमाससन्धियोगपदवदित्यर्थः । एवं काव्यस्य विशिष्टपदवैभवमुक्ता वाक्यवैभवं उच्यते-समेत्यादि । समः-ओजः प्रसादसमः, ओजस्समस्तपदभूयस्त्वं, प्रसादो व्यस्तपदभूयस्त्वम् । न चागमवत् केवलं ओजोभूयः । न च वेदवत् प्रसादभूय इत्यर्थः । मधुरः-वैदर्भरीतिः । तेन मधुरपाकेन, वाक्याश्रितपद-शक्तिवैभवेन उपनतः-उपलभ्यमानस्तत्तत्प्रकरणोचितार्थो यस्मिन् तत्तथा । परस्परान्वितक्रियाकारकपदं वाक्यम् । वाक्यत्वेन [१]बन्धः-सम्बन्धो वाक्य[२]बन्धः । समो मधुरः उपनतार्थो वाक्य[३]बन्धो यस्मिन् काव्ये तत्तथा । एवं विशिष्टपदवाक्यवैभववतोऽपि मिथ्यार्थकत्वादप्रामाण्यप्रसङ्ग इत्यतः-मुनिप्रणीतमिति । भगवदनुग्रहप्राप्त-सत्यसरस्वतीकमहर्षिप्रणीतम् । अत एव परं प्रमाणम् । एवमपि लौकिकाप्तवाक्यवत् परलोकानुपयोग इत्यतः-रघुवरचरितमिति । यतो भगवदवतारश्रीरामचरितं अतो ब्रह्मलोकावाप्तिसाधनं तदिदमेव विशेषविषयप्रयोजनकं काव्यम्, श्रेयोऽर्थिनः ! निशामयध्वं-सेन्द्रजित्कुम्भकर्णरावणस्यैव त्रिपदाघोरांशजमलत्वात्तन्नाशपर्यन्तश्रवणत एव युष्माकमपि शुद्धिसिद्धेः आन्तमिदं काव्यं शृणुध्वं इत्यर्थः ॥ ४३ ॥

इति श्रीमद्रामायणामृतकतकटीकार्या बालकाण्डे द्वितीयस्सर्गः


  1. बद्धः-क.
  2. बद्धः-क.
  3. बद्धः-क.