पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
50
[बालकाण्डः
वाल्मीकिना नारदपूजनम्

 एवं चतुर्वर्णसाधारणं फलमुपदिश्य तत्तत्प्रतिस्विकफलोपदेश:-पठन्नित्यादि ॥ हेतौ शता । रामायणमिति शेषः । द्विजः मुख्यो द्विजः । वागृषभत्वमीयादिति । शब्दब्रह्मपारगो भवतीति यावत् । यदि रामायणं फठन् क्षत्रियः [१]स्यात् तदाऽसौ भूमिपतित्वमीयात् । 'इण्' आशिषि लिङ् । 'अकृत्सार्वधातुके' इति दीर्घः । ईङ् गतावित्यस्मादिति [२]कश्चित् । स त्वात्मनेपदी । पण्यैः-क्रयद्रव्यैः साध्यं मूलात् द्विगुणत्रिगुणवृद्ध्यादिरूपं फलं यस्य, तस्य भावस्तत्वम् । शूद्रजनः-द्विजदासोऽपि तदितरसर्वप्रजाभ्यां महत्वं-श्रेष्ठ्यं ईयात्-देहान्तरे स्वोपरिवर्णप्राप्तिलक्षणं महत्वमीयात् ॥ १०० ॥

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे प्रथमः सर्गः


अथ द्वितीयः सर्गः

 नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।
 पूजयामास धर्मात्मा सहशिष्यो महा [३]मुनिः ॥ १ ॥

 एवं नारदादुपश्रुतदिव्यनायकस्योपश्रुतभूतभविष्यच्चरितरूपकाव्यविषयस्य च वाल्मीकेरपि कालिदासादेरिव काव्यमृषाजल्पस्य प्रसङ्गे तद्वदेव परलोकानुपयुक्तत्वप्रसङ्गे च भगवता ब्रह्मणा काव्यस्य स्वावतारविषयत्वेन स्वविषयकत्वाविशेषात्, स्वविषयकाव्यसन्दर्भस्य श्रुतिवदेव स्वलोकप्राप्तिफलकत्वस्यापि न्याय्यत्वात् तस्य च सर्वलोकमूर्धन्यस्यान्वर्थसत्याख्यम्य स्वीयब्रह्मलोकस्य सत्यवचनै कलभ्यत्वात्, स्वविषयकदिव्यकाव्यस्य च सत्यवचनत्वाय सरस्वत्या प्रणयनसिद्धये निजप्रादुर्भावा-


  1. स्याद्वित्यव्ययं यद्यर्थे- गो. सि.
  2. गोविन्दराजः.
  3. मुनिम्- ङ.