पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
51
नारदप्रस्थानम्

त्प्रागेव तस्य मातुः प्रादुर्भवनपूर्वकं निजापरोक्षानुभवपरमानुग्रहं कृत्वा 'न ते वागनृता काव्ये काचिदत्र भविष्यति' इत्यनुग्रहपूर्वं तावत्काव्यकर्तुरेव शाश्वतब्रह्मलोकशाश्वतप्रतिष्ठानुमतिप्रकाशनाय द्वितीयः सर्गः । एतदर्थप्रकाशनमपि प्रागस्मदुक्तरीत्या रामायणस्य वर्गसाधनताधीस्थैर्याय ॥ नारदस्य त्वित्यादि । विशिष्टा-व्याकरण-संस्कारादिविशेषवती विचित्रार्था वा शारदा-वाणी यस्य स विशारदः । लौकिकालौकिकवाक्यसन्दर्भे विशिष्टवाणीशक्तिमानिति यावत् । व्याकृतपदार्थो न विस्मरणीयः । सहशिष्यः । सहस्य सत्वाभावो 'वोपसर्जनस्य' इति । महामुनिः-वाल्मीकिः । नारदस्य तद्वाक्यं श्रुत्वा वाक्यविशारदत्वादेव तद्वाक्यगुणसामग्रीं दृष्ट्वा हृष्ट्वा तद्वाक्यं प्रथमतः पूजयामास–अतिविचित्रं भगवद्वचनमित्यादिवचनेन । नारदं तु यथागतं जिगमिषुं पुनश्च विशिष्य पूजयामास । अयमर्थो यथावत्पूजित इत्युत्तरवाक्याल्लभ्यते । एवं सर्वत्र प्रत्यक्षरं प्रतिश्लोकं समग्रभावप्रकाशनशक्तौ सत्यामपि बहुतरग्रन्थात् मध्यममार्गेणागच्छम् ॥ २ ॥

 यथावत्पूजितस्तेन देवर्षिनरदस्तथा ।
 [१]आपृच्छयैवाभ्यनुज्ञातः स जगाम विहायसम् ॥ २ ॥

 [२]आपृच्छ्यैव-साधु यामीत्युक्त्वैव । अनुज्ञातश्चैव यथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातश्चैव । आभ्यां गुरुशिष्ययोः (शिष्यगुर्वोः) स्नेहभक्तिप्रकाशनम् । विहायसमित्यकारान्तः पुल्लिङ्गः सकारान्तः पुल्लिङ्गो वा द्वितीयान्तः । उभयमप्यस्ति । सः-वाल्मीकिर्मुनिः तस्मिन्-नारदे देवलोकं गते सति स्वयं तदा मुहूर्तं स्वाश्रमे स्थित्वा पश्चान्माध्याह्निकार्थं जाहव्या अविदूरतः -समीपे वर्तमानं


  1. आपृष्ट्वैव-घ.
  2. आपृष्ट्वैव-ग.