पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
49
रामायणप्रशंसा

इति णत्वम् । पठन्निति हेतौ शता । अत एव हेतोः- सपुत्रेत्यादिफलम् । गणः-दासीदासादिगणः । सपुत्रपौत्रस्सगणः इह ऐहिकान् भोगान् भुक्त्वा प्रेत्य-मृत्वा स्वर्गे-पुण्यलोके महीयते । महधातुः पूजार्थः । स्वर्गिभिस्सत्कृतो मोदत इत्यर्थः ॥ अथात्र रामायणमित्यनेन विस्तृतसंक्षेपाविशेषेणोपदेशे तु सर्वपापेति सर्वशब्दासंकोचेन प्रेत्य सपुत्रपौत्रः स्वर्गे महीयत इति विनाऽध्याहारं यथावस्थितपदान्वयेन ब्रह्मलोकावाप्तिफलकत्वमेव रामायणस्योपदिश्यत इति युज्यते । ब्रह्मावतारश्चराम इत्यवादिष्ट च न्यायेन । अतस्तच्चरितानुसन्धातुः स्वर्गलोकावाप्तिययसिद्धा। असङ्कोचोपचारेण सर्वपापविमोकश्च ब्रह्मलोकासाधारणधर्मः । तथाविमोकस्ये 'तत्सुकृतदुष्कृते धूनुते' इति श्रुतेः ब्राह्मा- लौकिकविरजावगाह्रैकसाध्यत्वात् । अन्यत्र कुत्रापि कालक्कृतिमूलपुण्यातिवाहाविलयात् । प्रेत्य सपुत्रादिकतया महीयमानत्वस्य ब्रह्मलोकातिरिक्तलोकेऽसम्भवाच्च । तत्र तु "यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरस्समुत्तिष्ठन्ति । तेन पितृलोकेन सम्पन्नो महीयते "इत्यादिना छान्दोग्येन प्राप्तब्रह्मलोकमुक्तस्य सत्य सङ्कल्पत्वस्तदिच्छया तत्तत्पितृपुत्रादिसमुत्थानस्य घण्टाघोषत्वात् । ब्रह्मलोकश्च परनाकपरस्वर्गादितः सर्वोपनिषत्प्रसिद्धः । उक्तविशेषणबलात् परस्वर्गग्रहश्च । अयमेवास्मदभिप्रेतोऽर्थः ॥ ९९ ॥

 पठन् द्विजो वागृषभत्वमीयात्
  स्यात्क्षत्रियो भूमिपतित्वमीयात् ।
 वणिग्जनः पण्यफलत्वमीयात्
  जनश्च शूद्रोऽपि महत्वमीयात् ॥ १०० ॥

इत्यार्षे श्रीमद्रामायणे बालकाण्डे प्रथमः सर्गः