पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
48
[बालकाण्डः
श्रीमद्रामायणकाव्यप्रशंसा

ब्रह्मलोक इत्यादि । भगवानेव तेभ्यः प्रतिवक्ति-'तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥' इत्यादि 'ततो यान्त्यधमां गतिम्'-इत्यन्तेन । अस्माभिस्तु तेषामस्मदन्तेवास्यनुग्रहाय यद्वक्तव्यं तदाकरे प्रपञ्चितमिति नेह बहुग्रन्थसाध्यतस्सुप्रतिपादनम् । बत नारद एषामदुःखाय विष्णुपदं न प्रायुङ्क्त, नावेदीद्वा? लोकपदं प्रयाणपदं च द्वितीयार्धे व्यक्तं प्रायुङ्क्त ॥ ९७ ॥

 इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।
 यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ ९८ ॥

 अथ नारदः स्वोपदिष्टसंक्षेपपाठफलं प्रवृत्यङ्गमुपदिशति-इदमित्यादि ॥ पूयतेऽनेनेति पवित्रम् । 'कर्तरि चर्षिदेवतयोः' इति यथासंख्यं करणे कर्तरि इत्रः । ऋषिः वेदः । वेदतुल्यश्चेदम् । तथोक्तं वेदैश्च सम्मितमिति । तुल्यामति यावत् ॥ ९८ ॥

 एतदाख्यानमायुष्यं पठन् रामायणं नरः ।
 सपुत्रपौत्रस्सगणः प्रेत्य स्वर्गे महीयते ॥ ९९ ॥

 अनर्थनिवृत्तिवदर्थावातिरप्युपदिश्यते–एतदित्यादि । आयुः प्रयोजनमस्य-आयुष्यं, स्वर्गादिभ्यो यद्वक्तव्यम् । यद्वा निमित्ताधिकोर 'गो यचोऽसंख्या'-इत्यादिना यत् । आयुष्यं वर्चस्यं इत्यादि स्वरितत्वदर्शनात् कश्चन यत् प्रत्यय एवेह मृग्यः । तत्र संयोग रूपे निमित्ते उत्पातरूपे वा निमित्ते अयं यत्प्रत्ययः । अत्र चायुरादिफलमेव कर्त्रा संयुज्यत इति समस्ति । इह च संयोगरूपनिमित्तम् ॥ आख्यानं आख्यायिका, उपलब्धार्थम् । रामायणमिति । अयगतौ भावे ल्युट्, अयनं-चरितम्। रामस्यायनं रामायणं, 'पूर्वपदात्संज्ञायां '