पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
47
उत्तरकाण्डकथासंक्षेपः

 असंख्येयं धनं दत्वा ब्रह्मलोकं प्रयास्यतीति पूर्वेण सम्बन्धः ॥ ९५ ॥

 राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।
 चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥ ९६ ॥

 कामरूपकन्याकुब्जादि तत्तद्राज्यपदस्थान् राजवंशान् शतगुणान्-अनेकगुणवृद्धिमतः स्थापयिष्यति । शाश्वततत्तद्राज्यप्रदानेनेति शेषः । चत्वारो वर्णाश्चातुर्वर्ण्यं, स्वार्थे ष्यञ् । नियोक्ष्यतीति । शङ्कितस्वधर्मभ्रंशमपीति शेषः ॥ ९६ ॥

 दशवर्षसहस्राणि दशवर्षशतानि च ।
 रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ॥ ९७ ॥

 ब्रह्मलोकं प्रयास्यतीत्युक्तं; तत्कियत्कालानन्तरमित्यपेक्षायां-दश-वर्षेत्यादि । उपासित्वेति । राज्यपरिपालनमेव नित्यप्राप्तं योग-बुध्याऽनुष्ठायेत्यर्थः । तथा हि गीयते-'स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः' इति, 'स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः । इति च । ब्रह्मलोकं गमिष्यतीति । एवं भगवतो रामस्य ब्रह्मत्वं रामतुल्य-यज्ञदानादिनिजनित्यकर्मोपेतयोगिमात्र प्राप्यत्वं ब्रह्मलोकस्यैव सर्वलोकोत्तमत्वं श्रुतिसिद्धं चोपदिष्टं वेदितव्यम् । इह केचिदतिशब्दब्राह्मणाः अविदितकुलदेवताः अनाकुलितकुललोकाः अनुपासितकुलविद्याः अनाश्रितकुलदेशिकाः अखिलवेदशास्त्र निरतिशयश्रुतब्रह्मतल्लोकप्राशस्त्याः धृष्टधूपपिशाचवत् श्रुततदुत्कर्षामर्षोत्थिता ब्रह्मलोकशब्दयोरन्यथा नयने अतिमहत्प्रयतन्ते । कथम्? ब्रह्मेति विष्णुश्शिवो वा तस्य लोको ब्रह्मलोकः । स च भूर्भुवःस्वरादिसर्वलोकोपरिवर्तिसत्यब्रह्मलोकादपि परः इति; तथा ब्रह्मैव लोको