पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
[बालकाण्डः
रामराज्यप्राप्तिः

शनम्' इति भरतेन प्रतिज्ञातत्वात्, भरद्वाजाश्रमे चतुर्दशसमासमाप्त्यनन्तरं एकद्विदिनविलम्बस्य प्राप्तत्वात् स्वागमनप्रबोधनाय हनुमद्विसर्जनम् ॥ ८७ ॥

 पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।
 पुष्पकं तत्समारूह्य नन्दिग्रामं ययौ तदा ॥ ८८ ॥

 पुनरित्यादि । भरद्वाजाश्रमे पुष्पकादवतीर्णत्वात् पुनश्च तस्पुष्पकं समारुह्य पुनश्चाख्यायिकाः–उपलब्धार्थविषयिणी कथा आख्यायिका । भरद्वाजाश्रमावरोहात्पूर्वमिव सीतायै जरुपन्-'जल्पव्यक्तायां वाचि' व्यक्तमालपन् । सुग्रीवसहित इति विभीषण-देरुपलक्षणम् ॥ ८८ ॥

 नन्दिग्रामे जटां हित्वा भ्रातृभिस्सहितोऽनघः ।
 रामः [१]सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥ ८९ ॥

 नन्दिग्रामे भरतेन सह स्वस्यापि व्रतप्रयुक्तां जटां हित्वा-'जहातेश्च क्त्वि' इति हिभावः-त्यक्त्वा सर्वैर्भातृभिस्सह प्राप्तविसृष्टं राज्यं पुनरवाप्तवान् । अत्रेदमनुसन्धेयम्-रामस्य राज्यप्राप्त्यनन्तरकाले वाल्मीकेः'को नु' इत्यादिकस्य जिज्ञासितदिव्यकाव्यनायकस्य, अर्थात् काव्यविषयस्य तच्चरितस्य च प्रश्नः । अन्यथा नारदेन तच्चरितोक्तेरपृष्टोत्तरत्वप्रसङ्गात् । तथापृष्टश्च नारदः तादृशं काव्यनायकं इक्ष्वाकुवंश 'इक्ष्वाकुवंशप्रभवः' इत्यादिनोपदिश्य 'तमेवं गुणसंपन्नम्' इत्यादिना राज्यं पुनरवाप्तवान्' इत्यन्तेन वृत्तं तदीयचरितं चोपदिदेश ॥ ८९ ॥


  1. सीतामनुप्राप्य-समीपेप्राप्य 'रामं रत्नमये पीठे सहसीतं न्यवेशयत्' इत्याद्युयुक्तरीत्या दिव्यसिह्मासने सीतयाऽभिषेकं प्राप्येत्यर्थः-गो । सीतामनुप्राप्य मुनिवेषत्यागेन सीतानुरूपं रूपं प्राप्य-ति ॥